SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०६ सागारधर्मामृते नाभिकांक्षाप्रवृत्त्यर्थं । तथा मुञ्चन् । कं, संकेशं कोपदैन्याद्यविशुद्धपरिणामं । कथं, पुराऽनु च पूर्व पश्चाच्च । किविशिष्टं मौनं, तपःसंयमबृंहणं इच्छानिरोधस्य प्राणेन्द्रियसंयमस्य च पुष्टिकरम् ॥ ३४ ॥ मौनस्य तपोवर्द्धकत्वं श्रेयःसञ्चायकत्वं च श्लोकद्वयेन समर्थयते-- अभिमानावने गृद्धि-रोधाद्वर्धयते तपः। मौनं तनोति श्रेयश्च-श्रुतप्रश्रयतायनात् ।। ३५ ॥ टीका-वर्धयते । किं तत्,मौनं । किं, तपः । कस्मिन्निमित्ते सति, अभिमानावने अयाचकत्ववतरक्षायां सत्यां । तथा गृद्धिरोधात् भोजनलौल्यप्रति. बन्धाद्धेतोः । तथा तनोति स्फीतीकरोति । किं तत्, मौनं। किं, श्रेयः पुण्यं । कस्मात्, श्रुतप्रश्रयतायनात् श्रुतज्ञानविनयानुबन्धात् ॥ ३५॥ शुद्धमौनान्मनःसिध्या शुक्लध्यानाय कल्पते । वासिध्या युगपत्साधुस्त्रैलोक्यानुग्रहाय च ॥ ३६ ।। टीका-कल्पते सम्पद्यते समर्थो भवति । कोऽसौ, साधुदेशसंयतः संयतश्च । कस्मै, शुक्लध्यानाय । कया, मनःसिध्या चित्तवशीकरणेन । कस्मात्,जातया, शुद्धमौनात् भोजनोंदी निरतिचारमौनव्रतात् । तथा साधुः कल्पते । कस्मै, त्रैलोक्यानुग्रहाय त्रिजगदव्यजनानुपकर्तुं । कथं, युगपत् एककालं । कया, वाक्सिध्दया युगपत्रिजगदनुग्रहसमर्थभारतीविभूत्या ॥ ३८ ॥ नियतकालिकसार्वकालिकमौनयोरुद्योतनविशेषनिर्णयार्थमाह उद्योतनं महेनेकघण्टादानं जिनालये। असार्वकालिके मौने निर्वाहः सार्वकालिके ।। ३७ ।। १ सर्वदा शस्यते जोषं भोजने तु विशेषतः रसायनं सदा श्रेष्ठं सरोगत्वे पुनर्न किम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy