________________
चतुर्थोध्यायः ।
संसृष्टे सति जीवद्भिर्वा बहुभिर्मृतैः । इदं मांसमिति दृष्टसङ्कल्पे चाशनं त्यजेत् ॥ ३३ ॥
,
टीका - - त्यजेत् । कोऽसौ, व्रतिकः । किं तत्, अशनं तात्कालिकमेवाहारं, न तु वैकालिकादिकं । किं कृत्वा दृष्ट्वा स्पृष्ट्वा चेत्यपि द्रष्टव्यं । किं तत् आर्द्रत्यादि -- आईमशुष्कं चर्माजिन, अस्थि च कीकसं, तथा सुरां मद्यं, मांसं पिशितं, असृक् शोणितं, पूयं व्रणादिगतं पक्का, पूर्वशब्दाद्वशांत्रादि तथा स्पृष्ट्वा । किं तत्, रजस्वलां पुष्पवतीं स्त्रीं शुष्के चर्मास्थिनी, शुनकं श्वानं, आदिशब्देन मार्जारश्वपचादि । तथा श्रुत्वा आकर्ण्य । कम्, अतिकर्कशनिःस्वनं अस्य मस्तकं कृन्धि इत्यादिरूपं, आक्रन्दनिःस्वनं हाहेत्याद्यार्तस्वरस्वभावं, बिड्डुरप्रायनिःस्वनं परचक्रागमनातङ्क प्रदपिनादिविषयं । तथा भुक्त्वा शिवा । किं तत् वस्तु । किंविशिष्टं, नियमितं प्रत्याख्यातं । तथा अशनं त्यजेत् । क्व सति, भोज्ये भोक्तव्ये द्रव्ये सति । किंविशिष्टे, संसृष्टे मिलिते | कैः, -जीवैः द्वित्रिचतुरिन्द्रियप्राणिभिः । किं कुर्वद्भिः, जीवद्भिः प्राणद्भिः । किंविशिष्टैः सद्भिः, अशक्यविवेचनैः भोज्यद्रव्यात्पृथक्कर्तुमशक्यैः । वा अथवा संसृष्टैः। कैः, मृतैर्जीवैः । कतिभिः, बहुभिस्त्रिचतुरादिभिः । तथा । इदमित्यादि इदं भुज्यमान वस्तु मांसं सादृश्यात् इदं रुधिरमिदमस्थ्ययं सर्प इत्यादिरूपेण मनसा विकल्प्यमाने भोज्यवस्तुनीत्यर्थः ॥ ३३ ॥
अथाहिंसाणुव्रतशीलत्वेन मौनव्रतं व्याचिख्यासुः पञ्चश्लोकीमाहगृध्यै हुङ्कारादिसञ्ज्ञां संक्लेशं च पुरोऽनु च । मुञ्चन् मौनमदन् कुर्यात्तपःसंयमबृंहणम् ॥ ३४ ॥ टीका - कुर्याद् व्रतिकः । किं तत्, मौनमजल्पनं । किं कुर्वन्, अदन् भोजनं कुर्वन् । पुनः किं कुर्वन्, मुञ्चन् वर्जयन् । कां, हुङ्कारादिसञ्ज्ञां हुङ्कारखात्कारमूघांगुलिचलनादिभिः स्वाभिप्रायज्ञापनं । कस्यै, गृध्यै इष्टभोज्यार्थं । तन्निषेधार्थं तु हुङ्कारादिना सञ्ज्ञाकरणे अपि न दोषः । अथवा गृध्यै भोज
१ हुंकारांगुलिखात्कार भ्रूमूर्धचलनादिभिः ।
मौनं विदधता संज्ञा विधातव्या न गृद्धये ॥
T
भ्रूनेत्रहुंकारकरांगुलीभिर्गृद्धिप्रवृत्यै परिवज्ये संज्ञाम् । करोति भुक्तिं विजिताक्षवृत्तिः स शुद्धमौनत्रतवृद्धिकारी ॥
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org