SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सागारधर्मामृते शास्त्रनिदर्शनं विना सकलजनानुभवसिद्धं रात्रिभोजननिवृत्तिफलविशेषमाह - १०४ योऽत्ति त्यजन् दिनाद्यन्तमुहूर्ती रात्रिवत्सदा । सवतोपवासेन स्वजन्मार्द्ध नयन् कियत् ॥ २९ ॥ , टीका -- योऽत्ति भोजनं करोति । किं कुर्वन् त्यजन् वर्जयन् । कौ, दिनाद्यन्तमुहूर्ती दिवसस्यादावन्ते च द्वे द्वे घटिके । किंवत्, रात्रिवत् रात्रि यथा । कथं, सदा नित्यं । स कियत् कियान्मात्रं वण्येंत स्तूयेत सद्भिः । किं कुर्वन्, नयन् गमयन् । किं तत्, स्वजन्मार्धं अर्धं निजं जन्म | केन, उपवासेन चतुर्विधाहारपरिहारेण । समांशे विषमांशे वाऽत्रार्धशब्दो व्याख्येयः ॥ २९ ॥ अथ रात्रिभोजन वर्जनवन्मूलव्रत विशुध्द्यङ्गत्वादहिंसाव्रत रक्षाङ्गत्वाच्च श्रावकस्य भोजनान्तरायान् श्लोकचतुष्टयेन व्याचष्टे अतिप्रसङ्गमासेतुं परिवर्धयितुं तपः । व्रतबीजवृतीर्भुक्तेरन्तरायान् गृही श्रयेत् ॥ ३० ॥ " टीका- श्रयेत् प्रतिपद्येत । कोऽसौ, गृही प्रतिको गृहस्थः । कानू, अन्तरायान् । कस्या, भुक्तेः भोजनवर्जन हेतूनित्यर्थः । किंविशिष्टान् व्रतबीजवृती: बीजस्येव व्रतानामावेष्टकान् रक्षोपायत्वात् अहिंसाणुव्रतशीलभूतानित्यर्थः । किं कुर्वन् कर्तुं, असितुं त्यक्तुं । कम्, अतिप्रसङ्गं विहितातिक्रमेणोपर्युपरि प्रवृत्तिं । तथा परिवर्द्धयितुं समन्तादुपचेतुं । किं तत्, तपः इच्छानिरोधम् ॥ ३० ॥ तानेव श्लोकत्रयेण विशेषतो निर्देष्टुं विवृणोति-दृष्ट्वाऽऽर्द्रचर्मास्थिसुरामांसापूपूर्वकम् । स्पृष्ट्वा रजस्वलाशुष्कचमस्थिशुनकादिकम् ॥ ३१॥ श्रुत्वाऽतिकर्कशाक्रन्दविड्वरमायनिःस्वनम् । भुक्त्वा नियमितं वस्तु भोज्येऽशक्यविवेचनैः ॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy