________________
चतुर्थोध्यायः ।
सह परतो देशान्तरं यियासन् स्वभार्यां वनमालां प्रति मोचयति स्म । सा तु तद्विरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं • शपथानकारयत् । यथा प्रिये रामं मनीषिते देशे परिसंस्थाप्य यद्यहं भवतीं स्वदर्शनेन न प्रीणयामि तदा प्राणातिपातादिपातकिनां गतिं यामीति । सा तु तैः शपथैरतुष्यन्ती यदि रात्रिभोजनकारिणां शपथं करोषि तदा त्वां प्रति मुञ्चामि नान्यथेति । स च तथेत्यभ्युपगत्य देशान्तरं प्रस्थितवानिति ॥ २६ ॥ लौकिकसंवाददर्शनेनापि रात्रिभोजनप्रतिषेधमाह
यत्र सत्पात्रदानादि किञ्चित्सत्कर्म नेष्यते ।
कोऽद्यात्तत्रात्ययमये स्वहितैषी दिनात्यये ॥ २७ ॥ टीका-कः, स्वहितैषी आत्मनो लोकद्वयेऽपि पथ्यमिच्छुः । अद्यात्, न कश्चित्स्वहितैषी भुञ्जीतत्यर्थः । क्व, तत्र दिनात्यये रात्रिसमये । किंविशिष्टे, अत्ययमये दोषभूयिष्टे दोषनिवृत्ते वा । यत्र किं, यत्र नेष्यते बारिपि नाभिमन्यते । किं तत्, सत्कर्म शुभक्रिया। किंविशिष्टं, किंञ्चित् किमपि। किं पुनः सर्वं ! किंविशिष्टं तत्, सत्पात्रदानादि सत्पात्रदानं स्नानं देवार्चनमाहुतिः श्राद्धं विशेषतो भोजनं च ॥ २७ ॥ दिनरात्रिभोजनद्वारेण पुंसामुत्तममध्यमजघन्यभावमाह
भुञ्जतेऽह्नः सकृद्वर्या द्विर्मध्याः पशुवत्परे।
राज्यहस्तहतगुणान् ब्रह्मोद्यान्नावगामुकाः ॥ २८ ॥ टीका--भुञ्जते अश्नन्ति । के ते, वर्या उत्तमाः शुभकर्मणोल्बणः । कथं, सकृत् एकवारं । कस्य, अहो दिनस्य मध्ये । तथा भुञ्जते । के, मध्याः मध्यमाः शुभक्रियाभिरनुत्तमाधमाः । कथं, द्विः द्विवारं। कस्य, अह्नः तथा परे अधमाः पापकर्माणः । भुञ्जते। किंवत्, पशुवत् गोमहिषादिभिस्तुल्यं । कथं, रात्र्यहः नक्तंदिनं । किंविशिष्टाः सन्तो,नावगामुकाः अजानानाः । कान्, तद्वतगुणान् रात्रिभोजनवर्जनोपकारकधर्मान् । किंविशिष्टान्, ब्रह्मोद्यान् सर्वज्ञप्रतिपाद्यान् ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org