________________
१०२
सागारधर्मामृते
व्यञ्जनान्तः पतितो वृश्चिकस्तालुव्यथां, कण्टकः काष्टखण्डं वा गलव्यथां वालश्च गले लग्नः स्वरभङ्गमित्यादयो दृष्टदोषाः सर्वेषां प्रतीतिकरा, रातिभोजने सम्भवन्ति । तथा अप्रेक्ष्यजन्तुकमपि अप्रेक्ष्यास्तमसा छन्नत्वाद्द्रष्टुमशक्या जन्तुका अल्पजन्तवः सूक्ष्मजीवाः कुन्थ्वादयो जलघृतादिमध्ये पतिताः मोदकखर्जूराद्यनुषङ्गिणो वा यत्र तत्तथोक्तं । किं च । निशि भोजने क्रियमाणेऽ वश्यं पापः सम्भवति । तत्र च षड्जीवनिकायवधोऽवश्यम्भावी। भाजनधावनादौ च जलगतजन्तुविनाशो जलोज्झने च भूमिगत कुन्थुपिपीलिकादिजन्तुघातश्च संभवति । तथा प्रेताद्युच्छिष्टमपि प्रेता अधमव्यन्तरा आदयो येषां पिशाचराक्षसादीनां तैरुच्छिष्टं स्पर्शादिना अभोज्यतां नीतं । एते पूर्वे चाटष्टदोषाः । तथा उत्सृष्टमपि प्रत्याख्यातमपि वस्तु घोरान्धकाररुद्वदृशां तदुपलक्षणासम्भवादेषोऽप्यदृष्टो दोषः ॥ २५ ॥
वनमालादृष्टान्तेन रात्रिभोजनदोषस्य महत्तां दर्शयति
त्वां यद्युपैमि न पुनः सुनिवेश्य रामं लिप्ये वधादिकृदधैस्तदिति श्रतोऽपि । सौमित्रिरन्यशपथान्वनमालयैकं
दोषाशिदोषशपथं किल कारितोऽस्मिन् ॥ २६ ॥
टीका - किल रामायणे ह्येवं श्रूयते । कारितो विधापितः । कोऽसौ. सौमित्रिलक्ष्मणः । कया, वनमालया स्वभार्यया । कं, दोषाशिदोषशपथं दोषाशिनो रात्रिभोजिनो दोषो महापातकाख्यः तेन लिप्येऽहमिति शपथं किंविशिष्टम्, एक शपथान्तररहितं । क्व, अस्मिन् लोके । किंविशिष्टोऽपि श्रितोऽपि प्रतिपन्नोऽपि । कानू, अन्यशपथान् शपथान्तराणि । कथं, इरि अनेन प्रकारेण । यदि नोपैमि नागच्छामि । कां त्वां । कथं पुनर्व्याघुक किं कृत्वा, सुनिवेश्य सुव्यवस्थितं कृत्वा । कं, रामं । तत् ततः । लि संयुज्येऽहं । कैः कर्तृभिः, वधादिकृदधैः गोत्र्यादिघातकादिपापैः । तत्कथ यथा-लक्ष्मणो दशरथपितृनिदेशासह रामेण सीतया च दक्षिणापथे प्रस्थित ऽन्तरा कूर्च्चनगरे महीधरराजतनयां वनमालां परिणतिवान् । ततश्च रामे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org