________________
चतुर्थोध्यायः ।
टीका-अमोक्ष्यत मोक्षमगमिष्यत् । कोऽसौ, कोऽपि मुमुक्षुः । किं कुर्वन्, घरन् चेष्टमानः। कस्मिन् , क न क्वापि प्रदेशे । कस्मिन् , लोके जगति । किंविशिष्टे, विष्वग्जीवचिते समन्ताज्जन्तुव्याप्ते । चेद्यदि वा नाभविष्यतां नाजनिष्यतां । कौ, बन्धमोक्षौ । किंविशिष्टौ, भावैकसाधनौ भावः परिणाम एकमुत्कृष्टं प्रधानं साधनं निमित्तं ययोः । तत्र शुभाशुभोपयोगी पुण्यापापरूपबन्धस्य शुद्धोपयोगश्च मोक्षस्य प्रधान कारणमिति विभागः ॥२३॥
एवमतिचारपरिहारद्वारेगाहिंसाणुव्रतपरिपालनमुपदिश्य साम्प्रतं रात्रिभोजनवर्जनव्रतबलेन तदुपदिशन्नाह
अहिंसावतरक्षार्थ मूलवतविशुद्धये ।
नक्तं झुक्तिं चतुर्धाऽपि सदा धीरास्त्रिधा त्यजेत् ॥२४॥ टीका--त्यजेत् । कोऽसौ, व्रती । का, भुक्तिं भोजनं । कतिधा, चतुर्धाऽपि अन्नपानखाद्यलेह्यप्रकारमपि । कदा, नक्तं रात्रौ । कथं, सदा सर्वदा यावज्जीवं । कथं, विधा मनोवाकायैः । किविशिष्टः सन् , धीरः परीषहोपसगैं. रक्षोभ्यः सत्त्वभावनानिष्ठ इत्यर्थः । किमर्थं, अहिंसावतरक्षार्थं मूलव्रत विशुद्धये च मूलगुणान्विमलीकर्तुमहिंसाणुव्रतं च रक्षितुमित्यर्थ ॥ २४ ॥ दृष्टादृष्टदोषभूयिष्ठमपि रात्रिभोजनमाचरन्तं वक्रभणिया तिरस्कुर्वन्नाह
जलोदरादिकृयूकायङ्कमप्रेक्ष्यजन्तुकम् ।।
श्रेतायुच्छिष्टमुत्सृष्टमप्यश्ननिश्यहो सुखी ॥ २५ ॥ टीका-अहो आश्चर्य कष्टं च । भवति । कोऽसो, जनः । किंविशिष्टः, सुखी सुखिनमात्मानं मन्यते इहामुत च दुःखभागेव भवतीति भावः । किं कुर्वन् , अनन् भोज्यमाहरन् । क्व, निशि रात्रौ। किंविशिष्टम् , जलोदरादिकृयूकाद्यङ्कमपि अपिशब्दोऽन्तदीपकत्वाच्चतुर्भिरपि विशेषणैः सम्बध्यते । जलोदरमादिर्येषां कुष्टादीनामपायानां तान् कुर्वन्तीति तत्कृतो जलोदरादिहेतवस्ते च ते यूकादयश्च यूकामर्कटिकादयस्ते तथाविधा अङ्काः कलङ्का अङ्के वा उत्सङ्गे मध्ये यस्यान्नपानादेर्भोज्यवस्तुनस्तथोक्तं । तत्र यूका । भोजनेन सह भुक्ता जलोदरं करोति, कौलिकः कुष्ठं, मक्षिका छर्दैि, मद्किा मेदोहानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org