________________
१००
सागारधर्मामृते
marwwwwwwwwwww
. टीका-कुर्यात् । कोऽसौ, अहिंसाणुव्रतनैर्मल्यार्थी । कां, दयामनुकम्पा ।। किंविशिष्टां, नित्योदयां अविच्छिन्नोल्लासां । पुनः किंविशिष्टां, पोपध्वान्तरविप्रभा पापं बन्धाद्यतिचारदुष्कृतं तत् ध्वान्तमिव पुण्यप्रकाशविरोधित्वात् तत्र रविप्रभावात्तदनवगाह्यत्वात् । कस्मात्, कषायेत्यादि-कषायाः क्रोधादयः, विकथा मार्गविरुद्धाः कथाः, निद्रा भुक्तानपरिणामहेतुः स्वापः, प्रणयो मोहः स्नेहानुबन्धान्ममायमिति ग्रहः, अक्षाणि स्पर्शादिविषयरागद्वेषपरिणतानोन्द्रियाणि, तेषां पञ्चदशप्रमादानां विनिग्रहात् विधिपूर्वकनिग्रहात् । अत्र मार्गवि रुद्धाः कथाः भक्तस्त्रीदेशराजसम्बन्धिन्यः । तत्र भक्तकथा-इदं चेदं श्यामाकपायमोदकादि साधु भोज्यं, साध्वनेन भुज्यते, अहमपि चेदं भोक्ष्ये इत्यादिरूपा। तथास्त्रीकथा स्त्रीणां नेपथ्याङ्गहारहावभावादिवर्णनरूपा 'कर्णाटी सुरतोपचारचतुरा' लाटी विदग्धा प्रियेत्यादिरूपा वा । तथा देशकथा-दक्षिणपथःप्रचुरान्नपानस्त्रीसम्भोगप्रधानः, पूर्वदेशो विचित्रवस्त्रगुडखण्डशालिमद्यादिप्रधानः, उत्तरापथे शूराः पुरुषाः,जविनो वाजिनो, गोधूमप्रधानानि धान्यानि, सुलभं कुंकुम, मधुराणि द्राक्षादाडिमकपित्थादीनि, पश्चिमदेशे सुखस्पर्शानि वस्त्राणि सुलभा इक्षवः, सितं वारीत्येवमादि । राजकथा-शूरोऽस्मदीयो राजा सधनः शौण्डः गजपतिौडः, अश्वपतिस्तुरुष्कः इत्यादिरूपा। एवं प्रतिकूला अपि भक्तादिकथा वाच्याः । यदा तु रागद्वेषावनास्कन्दन् धर्मकथागत्वेन अर्थकामकथाः कथयति तदा न वैकथिकः स्यात्। एवं प्रणयस्यापि धर्मविरोधित्वेनैव प्रमादत्वं बोध्यम् ॥ २२ ॥ गृहस्थस्याहिंसादुष्परिपाल्यत्वशङ्कामपाकरोति--
विष्वग्जीवाचते लोके कचरन् कोऽप्यमोक्षत । भावैकसाधनो बन्धमोक्षो चेन्नाभविष्यताम् ॥ ३२ ।।
१ पुण्यं तेजोमयं प्राहुः प्राहुः पापं तमोमयम् ।
तत्पापं पुंसि किं तिष्ठेद्दयादीधितिमालिनि ॥ स्नेहानुविद्धहृदयो ज्ञानचरित्रान्वितोऽपि न श्लाघ्यः । दीप इवापादायता कज्जलमालिनस्य कार्यस्य ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org