SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः। त् । किंविशिष्टः, कृतो विहितः । केन, मन्त्रादिना मन्त्रतन्त्रादिना, न केवलं रज्वादिनेत्यपिशब्दाथः । केनेव, रज्वादिवत् पाशकादिना यथा । तत्तस्माद्यतनीयं मैत्र्यादिभावनालक्षणया प्रमादपरिहारपूर्वकचेष्टारूपया च यतनया वर्तितव्यं । कथं, तथा तेन विशुद्धाध्यवसायलक्षणेन प्रकारेण । यथा किं, यथा न स्यात् । किं तत्, व्रतं । किंविशिष्टं, मलिनं सातिचारम् ॥ १९ ॥ अहिंसाणुव्रतस्वीकारविधिमाह हिंस्यहिंसकहिंसातत्फलान्यालोच्य तत्त्वतः । हिंसां तथोज्झेन यथा प्रतिज्ञाभङ्गमाप्नुयात् ॥ २०॥ टीका--उज्झेत् व्रतयेत् । कोऽसौ, श्रावकः । कां, हिंसां । कथं, तथा तेन स्वशक्त्यनुसारलक्षणेन प्रकारेण । किं कृत्वा, आलोच्य गुरुसधर्मश्रेयोऽ थिभिः सह विमृश्य । कानि, हिंस्यहिंसकहिंसातत्फलानि । वध्यवधकवधतसाध्यानि । कस्मात्, तत्त्वतः याथात्म्येन ।यथा किं, यथा नाप्नुयात् । कोऽसौ, व्रती प्रतिपन्नव्रतः । कं, प्रतिज्ञाभड्गं नियमखण्डनम् ॥ २० ॥ हिंसकादील्लँक्षयति-- प्रमत्तो हिंसको हिंस्या द्रव्यभावस्वभावकाः । प्राणास्तद्विच्छिदा हिंसा तत्फलं पापसश्चयः ॥२१॥ टीका-भवति । कोऽसौ, हिंसकः । किंरूपः, प्रमत्तः कषायाद्याविष्टः । प्रपञ्चितं चैतदहिंसामहाव्रतोपदेशप्रस्तावे प्रागिति न पुनरिह प्रपंच्यते । तथा 'भवन्ति । के, हिंस्याः प्राणाः । किमात्मानो,द्रव्यभावस्वभावकाः द्रव्यात्मकाः पुद्गलविवर्तरूपाः भावात्मकाश्च चित्परिणामलक्षणाः । तथा भवति । काऽसौ, हिंसा । किंलक्षणा, तद्विच्छिदा तेषां द्रव्यभावप्राणानां वियोगकारणं । तथा भवति । किं तत्, तत्फलं हिंसासाध्यं । किं, पापसञ्चयः दुष्कर्मबन्धः ॥२१॥ गृहिणोऽप्यहिंसाव्रतनमल्याय विधिविशेषमाह-- कषायविकथानिद्राप्रणयाक्षविनिग्रहात । नित्योदयां दयां कुयोत्पापध्वान्तरविप्रभाम् ॥ २२ । Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy