________________
९८
सागारधर्मामृते
टीका-न पाति न पालयति । कोऽसौ, अधीरज्ञोऽसमीक्ष्यकारी। किं तत्, न हन्मीति व्रतं न मारयामीति नियमं । किं कुर्वन्, क्रुध्यन् क्रोधावेशं गच्छन्। कुतो न पाति, निर्दयत्वात् करुणारहितत्वात् । तथा न भनक्ति न नाशयति । कोऽसौ, अधीः । किं तत्, न हन्मीति व्रतं । किं कुर्वन्,-अघ्नन् प्राणैर्जीवमवियोजयन् । किं तर्हि करोतीत्याह–अतिचरति व्रतमतिक्रम्याधिवर्तते । तु पुनः। कस्मात्,देशभङ्गत्राणात् भगश्च त्राणं च भङ्गत्राणं देशस्यान्तर्बहिर्वृत्त्युभयरूपवतैकदेशस्य भङ्गत्राणमन्तवृत्त्या भञ्जनं बहिर्वृत्त्या च पालनं तस्मात् ॥ १७ ॥
आतिचरतीति पदार्थमभिव्यक्तुं भुक्तिरोधनं चेत्यत्र चशब्देन समुचितं चातिचारजातं वक्तुमाह--
सापेक्षस्य व्रते हि स्यादतिचारोंऽशभञ्जनम् ।
मन्त्रतन्त्रप्रयोगाद्याः परेऽप्यूह्यास्तथाऽत्ययाः॥१८॥ टीका-हि यस्मात् । स्याद्भवेत्। कोऽसौ, अतिचारः । किं स्यादंशभञ्जनं अन्तर्वृत्त्या बहिवृत्त्या वा खण्डनं । कस्य, सापेक्षस्य । क, व्रते प्रतिपन्नमहिंसाव्रतं न भनज्मीति अपेक्षमाणस्य पुंसः। तथा ऊह्याः विताः । के, अत्यया अतीचाराः । किंविशिष्टाः, मन्त्रतन्त्रप्रयोगाद्याः मन्त्र इष्टकर्मसाधनसमर्थः पठितसिद्धोऽक्षरपिण्डः, तन्त्रं सिद्धौषधिक्रियाः, मन्त्रश्च तन्त्रं च मन्त्रतन्त्रे तयोः प्रयोगो विधिवत्कर्मणि व्यापारणं स आयो येषां ध्यानादीनां ते मन्त्रतन्त्रप्रयोगाद्याः गतिस्तम्भमतिस्तम्भोच्चाटनादिदुष्टकर्मसाधनहेतवः, न केवलं ते परेऽपि शास्त्रान्तरनिर्दिष्टाश्च । कथमूह्याः । तथा तेन व्रतापेक्षापूर्वकं तदेकदेशभञ्जनलक्षणेन प्रकारेण मन्त्रादिकृत् ॥ १८ ॥ बन्धादीनामतिचारत्वसमर्थनपुरस्सरमतिचारपरिहारे यत्नं कारयन्नाह
मन्त्रादिनापि बन्धादिः कृतो रज्वादिवन्मलः ।
तत्तथा यतनीयं स्यान यथा मलिनं व्रतम् ॥ १९ ॥ टीका-भवति । कोऽसौ, बन्धादिः बन्धनताडनादिः । किं स्यात्, मल: यथोदितशुद्धिप्रतिबन्धित्वादहिंसाणुव्रतातिचारःस्यात्तदेकदेशभञ्जकत्वाविशेषा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org