________________
चतुर्थोध्यायः।
टीका--त्यजेद्वर्जयेत् । कोऽसौ, नैष्ठिकः । पाक्षिकस्य तु नास्ति नियमः । का, वृत्तिं जीवनार्थं व्यापारं । कैः, गवाद्योमहिषतुरगादिभिः । एषः प्रश. स्यतमः पक्षः । वा अथवा । उपेयात् परिगृह्णीयात् नैष्ठिकः । कान्, एतान् गवादीन् । किंविशिष्टान्, भोग्यान वाहदोहादावुपयोक्तुं शक्तान् । कथं, विना केन, बन्यादिना नियन्त्रणताडनादिना एष मध्यमः पक्षः । अथवा न योजयेत् स्वयमन्येन वा न विधापयेत् नैष्टिकः । कं, तं बन्धादि । कथं, निर्दयं । एषोऽधमः पक्षः । 'व्रतानि पुण्याय भवन्ति जन्तो-न सातिचाराणि निषेवितानि । सस्यानि किं वापि फलन्ति लोके मलोपलीढानि कदाचनापि' ॥ अत्राह कश्चित्-ननु हिंसैव श्रावकेण प्रत्याख्याता न बन्धादयः ततस्तत्करणेऽपि न दोषो हिसाविरतेरखाण्डितस्वात् । अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव विरतिखण्डनात् । किं च वधादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्येत प्रतिव्रतम. तिचारव्रतानामाधिक्यादिति । एवं च न बन्धादीनामतिचारतति । अत्रोच्यते। सत्यमहिंसैव प्रत्याख्याता न बन्धादयः । केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्या हिंसोपायत्वात्तेषां । न च बन्धादिकारणेऽपि व्रतभङ्गः किन्त्वतीचार एव । कथं ? द्विविधं हि व्रतं अन्तर्वृत्त्या बहिर्वृत्त्या च, तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात्परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्तते न च हिंसा भवति तदा निर्दयताविरत्यनपेक्षतया प्रवृत्तत्वनान्तर्वत्त्या व्रतस्य भङ्गो हिंसाया अभावाद्वहिर्वृत्त्या पालनमिति देशस्य भङ्गजननाद्देशस्यैव पालनादतिचारव्यपदेशःप्रवर्तते। तदुक्तंः-"न मारयामीति कृतव्रतस्य विनैव मृत्यु क इहातिचारः । निगद्यते यः कुपितो वधादीन् करोत्यसौ स्यन्नियमानपेक्षः॥ मृत्योरभावान्नियमोऽस्ति तस्य कोपाहयाहीनतया हि भङ्गः । देशस्य भंगादनुपालगाच्च पूज्या अतीचारमुदाहरात्न ॥" यच्चोक्तं व्रतेयत्ता विशीर्यतेति तदयुक्तं विशुद्धाहिंसासद्भावेः हि बन्धादीनामभाव एवातः स्थितमेतत् बन्धादयोऽतिचारा एवेति ॥ एतदवे संगृह्णन्नाह
न हन्मीति व्रतं क्रुध्यानिर्दयत्वान्न पाति न । भनक्त्यघ्नन् देशभङ्गत्राणात्त्वतिचरत्यधीः ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org