________________
सागारधर्मामृते
सार्थकः पुनरसौ द्वेधा । सापेक्षो निरपेक्षश्च । तत्र सापेक्षो यो दामग्रंथ्यादिना शिथिलेन चतुष्पादानां विधीयते यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते । निरपेक्षो यन्निश्चलमत्यर्थममी बद्ध्यन्ते। द्विपदानां तु दासदासीचोरजारादिप्रमत्तपुत्रादीनां यदा बन्धो विधीयते तदा सविक्रमणा एवामी बन्धनीया रक्षणीयाश्च यथाऽग्निभयादिषु न विनश्यन्ति । यद्वा द्विपदचतुष्पदाः श्रावकेण त एव संग्राह्या ये बद्धा एव तिष्ठन्तीति प्रथमोऽतिचारः । बधो दण्डकशाद्यभिघातः । सोऽपि दुर्भावाद्विधीयमानो बन्धवदतिचारः । यदि पुनः कोऽपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृत् द्विर्वा ताडयेदिति द्वितीयोऽतिचारः । छेदः कर्णनासिकादीनामवयवानामपनयनं । सोऽपि दुर्भावास्क्रियमाणोऽतिचारो निर्दयं हस्तादीनां छेद इत्यर्थः स्वास्थ्यापेक्षया तु गण्डवणादिच्छेदनदहनादिकं ससान्त्वनं कुर्वतोऽपि नातिचारः स्यादिति तृतीयः । अतिभारादिरोपणं न्याय्यभारादतिरिक्तस्य वोढ़मशक्यस्य भारस्यारोपणं वृषभादीनां पृष्टस्कन्धादौ वाहनोपाधिरोपणं । तदपि दुर्भावात्क्रोधाल्लोभाद्वा क्रियमाणमतिचारः । अत्राप्ययं विधिः-श्रावकेण तावत् द्विपदादिवाहनेन जीविका प्रागेव मोक्तव्येत्येष श्रेष्टः पक्षः अथान्योऽसौ न स्यात्तदा द्विपदो यावन्तं भारं स्वयमुत्क्षिपति अवतारयति च. तावन्तमेव वा वाह्यते मोच्यते चोचितवेलायाम् । चतुष्पदस्य तु यथोचितभारः किञ्चिदूनः क्रियते । हलशकटादिषु पुनरुचितवेलायामसौ मुच्यते इति चतुर्थः । भुक्तिरोधोऽन्नपानादिनिषेधः । सोऽपि दुर्भावाद्वन्धवदतिचारः। तीक्ष्णक्षुधादिपीडितः प्राणी म्रियत इत्यन्नादिनिरोधो न कस्यापि कर्तव्यः । अपराधकारणि च वाचैव वदेदद्य ते न दास्यते भोजनादिकमिति। स्वभोजनवेलायां तु नियमत एवान्यं भोजयित्वा स्वयं भुञ्जीतान्यत्रोपवासचिकित्स्यज्वरादिव्याधितेभ्यः । शान्तिनिमित्तं चोपवासाद्यपि कारयेदिति पञ्चमः । किंबहना मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनया वर्तितव्यम् ॥ १५ ॥ उक्तमेवार्थं मुग्धधियां सुखस्मृत्यर्थं किञ्चिदुपसंगृह्णन्नाह--
गवानैष्ठिको वृत्तिं त्यजेद्वन्धादिना विना। भोग्यान् वा तानुपेयात्तं योजयेद्वा न निर्दयम् ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org