SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः। ____टीका-हेया त्याज्या गृहिणा । काऽसौ, हिंसा । कस्मात् , प्रयत्नतः प्रणि'धानेन । उत्पद्यते । किं, दुःखं शारीरं दुःखं क्लेशः। कस्य, जन्तोर्जीवस्य परजीवस्य वा । तथा संक्लिश्यते सन्तप्यते । किं तत्, मनश्चित्तं जन्तोः । तथाs स्यते विनाश्यते । कोऽसौ, तत्पर्यायः स चासौ पर्यायश्च तत्पर्यायो वर्तमानभवग्रहणम् ॥ १३ ॥ अहिंसाणुव्रताराधनापेदशामित उत्तरः प्रबन्धः । तत्र तावत्प्रयोक्तारमाश्रित्येदमुच्यते-- सन्तोषपोषतो यः स्यादल्पारम्भपरिग्रहः । भावशुद्धयेकसर्गोऽसावहिंसाणुव्रतं भजेत् ॥ १४ ॥ टकिा--भजेत् आराधयेत् । कोऽसौ, गृही । किं तत्, अहिंसाणुव्रतं । यः किं, यः स्यात् । किंविशिष्टोऽल्पारम्भपरिग्रहः आरम्भश्च परिभ्रहश्च ममदेमहमस्येति बुद्विग्राह्यो भार्याद्यर्थः आरम्भपरिग्रहौ, अल्पो दुनिप्रकर्षानुस्यादको आरम्भपरिग्रहौ यस्य स तथोक्तः । कस्मात्, सन्तोषपोषतो धृतेः प्रकर्षात् । पुनः किंविशिष्टो, भावशुद्धयेकसो मनःशुद्धावेकानः ॥ १४ ॥ पञ्चातिचारान् परिहरन् वाङ्मनोगुप्त्यादिभावनापञ्चकेनाहिंसाणुव्रतमुपयुजीतेत्युपदिशति-- मुञ्चन् बन्धं बधच्छेदावतिभारादिरोपणम् । भुक्तिरोधं च दुर्भावाद्भावनाभिस्तदाविशेत् ।।१५।। टीका--आविशेदुपयुञ्जीत। कौऽसौ, व्रतिकः किं तत् अहिंसाणुव्रतं । काभिः भावनाभिः वारगुप्तया मनोगृप्तया ईयासमित्या आदाननिक्षेपणसमित्या आलो कितपानभोजनेनेति पंचभिरभ्यासविशिष्टैः । किं कुर्वन्, मुञ्चन् वर्जयन्। किंतत्, बन्धादिपञ्चकं । कस्मात् , दुर्भावादिति समन्वयः। इतो विस्तरः-बन्धो रज्वादिना गोमनुष्यादीना नियन्त्रणं । स च पुत्रादीनामपि विनयग्रहणार्थ विधीयते अतो दुर्भावादित्युक्तं । दुर्भावं दुष्परिणामं प्रबलकषायोदयमाश्रित्य क्रियमाणो यो बन्धस्तं वर्जयन्नित्यर्थः । अनायं विधिः-बन्धो द्विपदानां चतुष्पदानां वा स्यात् । सोऽपि सार्थकोऽनर्थको वा तत्रानर्थकस्तावच्छावकस्य कर्तुं न युज्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy