________________
९४
सागारधर्मामृते
टीका-- यद्यस्माद्भवति । किं तन्मुक्त्यङ्गं मोक्षसाधनं । किं, अहिंसैव द्रव्यभावहिंसाविरमणमेव । तत्तस्मात् । उज्झेत् त्यजेत् । कोऽसौ, उपासकः श्रावकः । किंविशिष्टो, मुमुक्षुः बुभुक्षोर्नास्ति नियम इति भावः। कम्, एकाक्षबधमपि त्रसहिंसामिव स्थावरहिंसामपि । यः किं, यःएकाक्षबधः। न स्यात् । किंविशिष्टः, अवयंभोगकृत् अवानां वर्जयितुमशक्यानामावानां वा अर्जनीयानां भोगानां सेव्यार्थानां कारणम् ॥ ११ ॥ साङ्कल्पिकबधं नियमयति--
गृहवासो विनाऽऽरम्भान चारम्भो विना वधात् । त्याज्यःस यत्नात्तन्मुख्यो दुस्त्यजस्त्वानुषङ्गिकः॥१२॥ टीका--न भवति । कोऽसौ, गृहवासो गेहाश्रमः । कथं, विना । कस्मात् आरम्भात् कृष्यादिजीवनोपायात् । तथा न भवति। कोऽसौ, आरम्भः । कथं विना । कस्मात्, बधात् प्राण्युपमर्दनात् । यत एवं तत्तस्मात्याज्यः। कोऽसौ स बधः। किंविशिष्टो, मुख्यः इमं जन्तुमासाद्यार्थित्वेन हन्मीति सङ्कल्पप्रभवः। कस्मात्,यत्नात् अवधानात् । तुर्विशेषे । तेन भवति । कोऽसौ,आरम्भः। किंविशिष्टो,दुस्त्यजः त्यक्तुमशक्यः। किंविशिष्टः, आनुषङ्गिकः कृष्याद्यनुषङ्गे जातः कृष्यादौ क्रियमाणे सम्भवन्नित्यर्थः ॥ १२ ॥ प्रयत्नहेयां हिंसामुपदिशति
दुःखमुत्पद्यते जन्तोर्मनः संक्लिश्यतेऽस्यते । तत्पर्यायश्च यस्यां सा हिंसा हेया प्रयत्नतः॥१३॥
जे तसकाया जीवा पुन्चुद्दिहा ण हिंसिदव्वा ते। एगिदियावि णिक्कारणेण पढमं वदं थूलम् ॥ स्तोकैकेन्द्रियघातात् गृहिणां सम्पन्नयोग्यविषयाणाम् । शेषस्थावरमारणविरमणमपि भवति कर्तव्यम् ॥ भूपयःपवनानीनां तृणादीनां च हिंसनम् । यावत्प्रयोजनं स्वस्थं तावत्कुर्यादजन्तुजित् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org