SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः । arrowinnames आसनं शयनं यानं मार्गमन्यच्च वस्तु यत् । अदृष्टं तन्न सेवेत यथाकालं भजन्नपि ॥ दृष्टिग्रहणं ज्ञानक्रियोपलक्षणं । मुष्टिग्रहणं च ग्रहणादिक्रियोपलक्षणं । तथा न च वर्तयेत् । कोऽ सौ, त्यक्तगृहः । कं, परं क, तादृशे जीववधे । तथा न च रचयेत् न कुर्यात् । किं तत् नखच्छोटिकादि । क्व, तत्परे जीवबधे स्वयमेव वर्तमाने पुंसि ॥ ८ ॥ ९ ॥ __ एवं त्यक्तगृहस्योपासकस्याहिंसाणुव्रतविधानमुपदिश्येदानीं गृहवर्तिनस्तदुपदिशन्नाह-- इत्यनारम्भजां जह्याद्धिंसामारम्भजां प्रति । व्यर्थस्थावरहिंसावद्यतनामावहेगृही ॥१०॥ टीका-जह्यात् त्यजेत् । कोऽसौ, गृही गृहवर्तिश्रावकः । कां, हिसां । किंविशिष्टाम्, अनारम्भजां अनारम्भे आसनोपवेशनादौ जातां तत्सम्भ. विनामित्यर्थः । उक्तंच-- गृहकार्याणि सर्वाणि दृष्टिपूतानि कारयेत् । कथं जह्यात् इति अनेन त्यक्तगृहोपासकोपदिष्टेन प्रकारेण । तथा आवहेत् कुर्यात् । कोऽसौ, गृही। कां, यतनां समितिपरतां । कथं, प्रत्युद्दिश्य कां, हिंसां । किंविशिष्टाम्, आरम्भजां कृष्याद्यारम्भसम्भविनीं । किंवत्, व्यर्थस्थावरहिंसावत् निष्प्रयोजनैकेन्द्रियबधे यथा ॥ १० ॥ स्थावरबधादपि निवृत्तिमुपपादयति-- यन्मुक्त्यङ्गमाहिसैव तन्मुमुक्षुरुपासकः। एकाक्षबधमप्युज्झेद्यः स्यानावयंभोगकृत् ॥ ११ ॥ हिंसा द्वेधा प्रोक्ताऽऽरम्भानारम्भभेदतो दक्षैः । गृहवासतो निवृत्तो द्वेधाऽपि त्रायते तां च ॥ गृहवाससे वनरतो मन्दकषायः प्रवर्तितारम्भः । आरम्भजां स हिंसां शक्नोति न रक्षितुं नियतम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy