________________
९२
सागारधर्मामृते
न कारयामि श्रसान् हिंसय हिंसयेति मनसाऽन्यप्रयोजको न भवामीत्यर्थः । अत्र हिंसयेति हन्त्यर्थाच्चेति हिनस्तेश्चुरादिपाठाणिजन्तस्य रूपं । तथाऽन्यं त्रसहिंसां कुर्वन्तं मनसा नानुमन्ये सुन्दरमनेन क्रियते इति मनःसङ्कल्पं न करोमीत्यर्थः : । एवं वाचा स्वयं त्रसहिंसां न करोमि त्रसानू हिनस्मीति स्वयं वाचं नोच्चारयामीत्यर्थः । तथा वाचा त्रसहिंसां न कारयामि त्रसान् हिंसय हिंसयेति वाचं नोच्चारयामीत्यर्थः । तथाऽन्यं त्रसहिंसां कुर्वन्तं वाचा नानुमन्ये साधु क्रियते त्वयेति वाचं नोच्चारयामीत्यर्थः । तथा कायेन त्रसहिंसां स्वयं न करोमि त्रसहिंसने दृष्टिमुष्टिसन्धाने स्वयं कायव्यापारं न करोमीत्यर्थः । तथा कान सहिंसां न कारयामि त्रसहिंसने हस्तादिसञ्ज्ञया कायेन परं 'न प्रेरयामीत्यर्थः । त्रसहिंसां कुर्वन्तमन्यं कायेन नानुमन्ये त्रसहिंसने प्रवर्त-मानमन्यं नखच्छोटिकादिना नाभिनन्दामीत्यर्थः ॥ ७ ॥
एतदेव पद्यद्वयेन संगृह्णन्नाह -
इमं सत्त्वं हिमस्मीति हिन्धि हिन्ध्येष साध्विमम् । हिनस्तीति वदन्नाभिसन्दध्यान्मनसा गिरा ॥ ८ ॥ वर्तेत न जीवबधे करादिना दृष्टिमुष्टिसन्धाने । न च वर्तयेत्परं तत्परे नखच्छोटिकादि न च रचयेत् ॥९॥
टीकाः-नाभिसन्दध्यात् न सङ्कल्पयेत् । कोऽसौ, त्यक्तगृहः श्रावकः । कं, बंधं हिंसां । केन, मनसा तथा गिरा वाचा । कथमिति किमिति, हिनस्मि हन्मि । कं, सत्त्वं जीवं । किंविशिष्टम् इमं पुरोवर्तिनं । तथा हिन्धि, हिन्धि मारय मारय । कं, इमं । तथा हिनस्ति हन्ति । कोऽसौ, एषः पुरुषः कम्, इमं । कथं, साधु सुंदरं । न वर्तेत न व्याप्रियेत । कोऽसौ व्यक्तगृहः ।
जीवबधे जीवानां सत्त्वकल्पितत्र सप्राणिनां प्राणव्यपरोपणे । क्क विषये, दृष्टिमुष्टिसन्धाने दृष्टिःचक्षुः मुष्टिर्हस्तांगुलीबन्धविशेषः, दृष्टिश्वमुष्टिश्च दृष्टिमुष्टी ताभ्यां सन्धानं संयोजनं यस्मिन् प्रवृत्तिविषये तत् दृष्टिमुष्टिसन्धानं पुस्तकासनादिकमुपकरणवस्तु तस्मिन् । व्यक्तगृहस्यपि श्रावकस्य सम्भावनि जीवबधे करादिना हस्तांगुल्याद्यङ्गोपाङ्गेन न प्रवर्तेतेत्यर्थः । उक्तंच-
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org