________________
चतुर्थोध्यायः । प्रणेतृणामपि चक्रवर्त्यादीनामणुव्रतादिधारणं पुराणादिषु च बहुशः श्रूयमाणं न विरुष्यते । आत्मीयपदवीशक्त्यनुसारेण तैः स्थूलहिंसादिविरतेः प्रतिज्ञानात् ॥ ५॥ स्थूलविशेषणं व्याचष्टे
स्थूलाहिंस्याद्याश्रयत्वात् स्थूलानामपि दुर्दृशाम् ।
तत्त्वेन वा प्रसिद्धत्वावधादि स्थूलमिष्यते ॥ ६॥ टीका-इष्यते अभिमन्यते आचार्यैः । किं तत् , बधादि हिंसादिपापकर्म-- पञ्चकं । किंविशिष्टमिष्यते, स्थूलं । कस्मात् , स्थूलहिंस्याद्याश्रयत्वात् स्थूला बादरा हिंस्यादयो हिंस्यभाष्यमोष्यपरिभोग्यपरिग्राह्या आश्रया आलम्बनानि यस्य तत्तदाश्रयं तद्भावात् । तथा बधादि स्थूलमिष्यते। कस्मात् ,प्रसिद्धत्वात् सम्प्रतिपनत्वात् । केषां, स्थूलानामपि । किंलक्षणानां, दुईशां मिथ्यादृष्टीनां केन, तत्त्वेन बधादिभावेन । वाशद्वात्स्थूलकृतत्वाच्चेत्यनुक्तं समुच्चीयते ॥ ६ ॥ इदानीमौत्सर्गिकमहिंसाणुव्रतं व्याचष्टे---
शान्ताद्यष्टकषायस्य सङ्कल्पैर्नवभिस्त्रसान् ।
अहिंसतो दयार्द्रस्य स्यादहिंसेत्यणुव्रतम् ॥ ७ ॥ टीका--स्याद्भवेत् । किं तत् , अणुव्रतं । किमाख्यम् , अहिंसेति अहिं-- साख्यं । कस्य, शान्ताद्यष्टकषायस्य शान्ता शमङ्गताः शमिता वा आद्या अनन्तानुबन्धिनो अप्रत्याख्यानावरणाश्च अष्टा कषायाः क्रोधादयो यस्य येन वा तस्य । पुनः किंविशिष्टस्य, दयार्द्रस्य करुणामृदुहृदयस्य । प्रयोजनोद्देशेन कदाचित् स्थावरघाते प्रवृत्तावप्यनुकम्प्यमानमानसस्येति भावः। किं कुर्वत;, अहिंसतो द्रव्यभावप्राणैरवियोजयतः । कान् , सान् द्वित्रिचतुः पञ्चेन्द्रियजविान् ।कैः, सङ्कल्पैः उत्तरसूत्रद्वयनिर्दिष्टैर्हिसाभिसन्धिभिः। कतिभिः, नवभिः मनोवाक्कायैः पृथक्करणकारणानुमननैरित्यर्थः । अत्र करणग्रहणं. कर्तुः स्वातन्त्र्यप्रतिपत्त्यर्थ । कारणाश्रयणं परप्रयोगापेक्षं । अनुमननोपादानं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थं । तथाहि-त्रसहिंसां स्वयं न करोमि असान् हिनस्मीति मनःसङ्कल्पं न करोमीत्यर्थः । तथा मनसा त्रसहिंसामन्यं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org