________________
सागारधर्मामृते
..
एष द्विविधत्रिविधाख्यः स्थूलहिंसादिविरतिभङ्गो बहुविषयत्वात् श्रेयान् । अपिशब्दः प्रकारान्तरेणापि स्थूलहिंसादिनिवृत्तेरणुत्वख्यापनार्थः । शक्त्या हि व्रतं प्रतिपन्नं सुखनिर्वाहं श्रेयोऽर्थं च स्यात् । तद्विरतिभङ्गाः करणादित्रिकेण योगत्रिकेण च विशिष्यमाणा एकोनपञ्चाशद्भवन्ति । यथा हिंसां न करोति मनसा १, वाचा २, कायेन च ३, मनसा ४, मनसा कायेन ५, वाचा कायेन ६, मनसा वाचा कायेन च ७, एते करणेन सप्तभङ्गाः एवं कारणेन सप्त। अनुमत्याऽपि सप्त । तथा हिंसां न करोति न कारयति च मनसा १, वाचा २, कायेन ३, मनसा वाचा ४, मनसा कायेन ५, वाचा कायेनं ६, मनसा वाचा कायेन च ७, एते करणकारणाभ्यां सप्त । एवं करणानुमतिभ्यां सप्त । कारणानुमतिभ्यामपि सप्त । करणकारणानुमतिभिरपि सप्त । एवं सर्वे मिलिता एकोनपञ्चाशद्भवन्ति । एते च त्रिकालविषयत्वात्प्रत्याख्यानस्य कालत्रयेण मुणिताः सप्तचत्वारिंशदधिकं शतं भवान्त १४७ । त्रिकालविषयता चातीतस्य निन्दया साम्प्रतिकस्य संवरणेनानागतस्य च प्रत्याख्यानेनेति । एते च भङ्गा अहिंसावतवद्वतान्तरेष्वपि द्रष्टव्याः अत्रेयं भावना दिक् । तत्र तावब्दाहुल्येनोपदेशात् द्विविधत्रिविधभङ्गमाश्रित्योच्यते । स्थूलहिंसां न करोत्यात्मना न कारयत्यन्येन मनसा वाचा कायेन चेति । तथा स्थूलहिंसां न करोति न कार. यति मनसा वाचा । यद्वा मनसा कायेन अथवा वचसा कायेन चेति । तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव वाचाऽपि हिंसकमब्रव व कायेनैव दुश्चेष्टितादि असज्ञिवत्करोति । यदा तु मनसा कायेन न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेवानाभोगाद्वाचैव हन्मि घातयामि वेति ब्रूते । यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धीकृत्य करोति कारयति च । अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्ति । एवं शेषविकल्पा अपि भावनीयाः । स्थूलग्रहणमुपलक्षणं । तेन निरपरोधसंकल्पपूर्वक हिंसादीनामपि ग्रहणम् । एतेन-“दण्डो हि केवलो लोकाममं चामुं च रक्षति । राज्ञा शत्रौ च पुत्रे च यथादोषं समं घृत" इति वचनादपराधकारिषु यथाविधदण्ड
१ पंगुकुष्टिकुणित्वादि दृष्ट्वा हिंसाफलं सुधीः । निरागस्त्रसजन्तूनां हिंसां संकल्पतस्त्यजेत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org