________________
चतुर्थोध्यायः।
द्वादश । कथ,-मित्यनेन प्रकारेण । भवति । किं तत् , अणुव्रतं अणुव्रतापेक्षया लघुव्रतमहिंसादि । कतिधा, पञ्चधा अस्य पञ्चधात्वं बहुमतत्वादिष्यते क्वचित्तु राज्यभोजनमप्यणुव्रतमुच्यते। तथा भवति । किं तत्, गुणवतं । कतिधा, त्रेधा । गुणार्थमणुव्रतानामुपकारार्थ व्रतं गुणवतं दिग्विरत्यादीनामणुव्रतानुबृंहणार्थत्वात् । तथा भवति। किं तत्, शिक्षावतं । कतिधा, चतुर्धा शिक्षायै अभ्यासाय व्रतं देशावकाशिकादीनां प्रतिदिवसाभ्यसनीयत्वात् । अत एव गुणव्रतादस्य भेदः । गुणवतं हि प्रायो यावजीविकमाहुः । अथवा शिक्षाविद्योपादानं शिक्षाप्रधान व्रतं शिक्षाव्रतं देशावकाशिकादेर्विशिष्टश्रुतज्ञानभावनापरिणतत्वेनैव निर्वाह्यत्वात् ॥ सामान्येन पञ्चाणुव्रतानि लक्षयन्नाह--
विरतिः स्थूलषधांदेर्मनोवचोऽङ्गकृतकारितानुमतैः ।
कचिदपरेऽप्यननुमतैः पञ्चाहिंसाधणुव्रतानि स्युः ।।५।। टीका--स्युः भवेयुः । कानि, अहिंसाद्यणुव्रतानि । कति, ञ्च । विरतिः निवृत्तिः । कस्मात्, स्थूलबधादेः। कैः, मन इत्यादि--कृतादयो भावे क्तसाधनाः । मनश्च वचश्च अङ्गं च मनोवचोऽङ्गानि, तेषां प्रत्येकं कृतं च कारितं चानुमतं च मनोवचोऽङ्गकृतकारितानुमतानि तैः । केषां पञ्चाणुव्रतानि स्युः, क्वचिद्गृहवासनिवृत्ते श्रावके तथा अपरे गृहवासनिरते श्रावके । अननुमतैर. नुमतिवर्जितैस्तैः षड्भिस्तानि स्युरिति संक्षेपः । इतो विस्तरः--स्थूलजीवादिविषयत्वान्मिथ्यादृष्टीनामपि हिंसादित्वेन प्रसिद्धत्वाद्वा स्थूलो बधादिः स्थूला हिंसानृतस्तेयाब्रह्मपरिग्रहा इत्यर्थः । ततो मनसा वाचा कायेन च पृथक्करणकारणानुमननैर्निवृत्तिरहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाख्यानि पञ्चाणुव्रतानि क्वचिद्गहवासनिवृत्ते श्रावके भवेयुरित्युत्कर्षवृत्त्याऽणुव्रतान्युपदिश्यन्ते। यान्यपरे गृहवासनिरते श्रावकेऽननुमतैरनुमतिविवर्जितैमनस्करणादिभिः षड्भिः स्थूलहिंसादिनिवृत्त्या सम्पद्यन्ते तानि मध्यमवृत्त्या व्रतान्यभिमन्यन्ते । तस्यापत्यादिभिर्हिसादिकरणे तत्कारणे वा अनुमतेरशक्यप्रतिषेधत्वात् । स उक्तंच चारित्रासारे१ धादसत्याचौर्याच कामाद्गन्थानिवर्तनम् । पञ्चधाऽणुव्रतं राज्यभुक्तिः षष्ठमणुव्रतम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org