SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सागारधर्मामृते दिभेदात्पञ्चदशधा । उक्तं च-ब्रीहिर्यवो मसूरो गोधूमो मुद्गमाषतिलचणकाः अणवः प्रियंगुकोद्रवमयुष्टिकाशालिराढक्यः ॥ १ ॥ १२४ किं च कलायकुलित्थौ पञ्चदशधान्यानीति च । धनं च धान्यं च धनधान्यं । तत्र स्वगृहगतधनादेर्विक्रये व्यये वा कृते गृहिष्यामीति भावनया बन्धनात् रज्ज्वादिनियन्त्रणलक्षणात् सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य धनधान्यं विक्रेतृगृहे एव स्थापयन्न मितिमतीयात् । अन्यथा द्वितीयोऽ तिचारः स्यात ॥ २ ॥ कनकं सुवर्ण घटितमघटितं वाऽनेकप्रकारमेवं रूप्यमपि, कनकं च रूप्यं तत्र । दानात् स्वव्रतकालावधौ पूर्णे गृहिष्यामीति अभिप्रायेण तुष्टराजादितः स्वप्रतिपन्न संख्यां ततोऽधिके लब्धेऽन्यस्मै वितरणान्न मितिमतीयात् अन्यथा तृतीयोऽतिचारः स्यात् ॥ ३ ॥ कुप्ये रूप्यसुवर्णव्यतिरिक्ते कांस्यलोहताम्रसोसकत्र पुमृद्ध (ण्डवंशविकारोदङ्किकाकाष्टमञ्चकमञ्चिकामसूरकरथशकटहलप्रभृतिद्रव्ये भावात् द्वयोर्द्वयोर्भेलनेनैकीकरणरूपात् पर्यायान्तराद्रतावधौ पूर्णे गृहिष्यामीति अन्यप्रदेयतया व्यवस्थापनेनार्थित्वरूपाभिप्रायाद्वा न मितिमतीयादन्यथा चतुर्थोऽतिचारः स्यात् । कुप्यस्य हि या संख्या कृता तस्याः कथञ्चित् द्विगुणत्वे सति व्रतभङ्गगभयात् भावतो द्वयोर्द्वयोर्मीलनेनैकीकरणरूपात्पर्यायान्तरात्स्वाभाविकसंख्याबाधनात् संख्यामात्रपूरणाच्चातीचारः । अथवा भावतोऽभिप्रायादर्थित्वलक्षणाद्विवक्षितकालावधेः परतो गृहिष्याम्यतो नान्यस्मै प्रदेयतया व्यवस्थापयतोऽसौ स्यात् ॥ ४ ॥ गवादी गौरादिर्यस्य द्विपदचतुष्पदवर्गस्यासो गवादिः । आदिशद्वेन हस्त्यश्वमहिष्यादिचतुष्पदानां शुकसारिकादिद्विपदानां पत्न्युपरुदासपदात्यादीनां संग्रहः । तत्र गर्भतो न मितिमतीयात् । गवादीनां गर्भग्रहणादुपलक्षणादन्येषां यथास्वमनाभोगादिनाऽतिक्रमादिना वा संख्यां नातिक्रमेत् । गोमहिषविवादेर्हि विवक्षित संवत्सराद्यवधिमध्ये एव प्रसवे अधिकगवादिभावाद्रतभङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणाद्गर्भस्थगवादिभावेन बहिस्तदभावेन च कथञ्चिद्रतभङ्गात्पञ्चमोऽतिचारः स्यात् ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy