________________
अश्रुवीणायाः समीक्षणम् । २१ माद्रसनिष्पत्तिः। विभानुभावव्यभिचारिसंयोगाद्रसनिष्पतिः इति भरतः। विश्वनाथमतानुसारेण विभानुभावसंचारीयोगात्सहृदयहृदये विद्यमान वासनारूपस्थायीभावानां पूर्णपरिपक्वावस्था एव रसः -
विभानुभावेन व्यक्तः संचारिणा तथा।
रसतामेति रत्यादिः स्थायी भावः सचेतसाम्॥ काव्येऽस्मिन् शान्तरसस्य प्राधान्यमस्ति । तत्वज्ञानादथवा निर्वेदवैराग्यात् शान्तरसस्योत्पत्तिः। अनित्यसंसारस्य परिज्ञानमथवा परमार्थचिन्तनमस्यालंबन विभावाः सत्संगति साधुदर्शन पुण्याश्रम ध्यान समाध्यादयरस्य उद्दीपनरूपाः। घृतिनिर्वेदमतिस्मृतिहर्षादित्यस्य संचारीभावा: रोमांचादि अनुभावाः।साहित्यदर्पणे वृहद्रूपेण निरुपितमस्ति।” कलिकालसर्वज्ञाचार्य हेमचन्द्रः तृष्णाक्षयरूपक्षमः स्थायिभाव युक्तो शान्तरसेति कथयतिः -
वैराग्यादिविभावो- तृष्णाक्षयरूपः शमः स्थायिभावः प्राप्तः शांतोरसः।
खण्डकाव्येऽस्मिन् भक्तिमूलकशांतरसस्य प्रवाहो प्रवहति। रथिकादीनां क्रूरकर्मात् संसारनिर्वेदापन्नासतीचन्दनबाला भगवति महावीरे एवअखण्डात्मिकां रतिं स्थापयति। तस्याः निर्वाण सुखमथवा मोक्षानन्दो परमलक्ष्यम्। 'श्रद्धे! मुग्धान् प्रणयसि' रूपपरमपवित्रसमताभूत-द्वैधविलयरूप श्रद्धासरोवरात् या शान्त प्रस्रविनी प्रवाहिता सा प्रतिक्षणं वर्द्धमाना क्षणेक्षणे यन्नवतामाप्नुवती 'मोघो जातो महतिसुतरामश्रुवीणा निनादेति-आनन्दसागरे मोक्षाम्बुधौ वा परमविश्रान्तिं प्राप्नोति। अश्रुवीणायां कु मारी चन्दना सर्वान् दुःखनतिक्रम्य परमशिवभूतमोक्षफलप्रापक-निर्वाण मार्गमाप्नोति अततस्मात् दुःखविमोक्षणरूपत्वात् शान्तरसस्य महत्वमाचार्यै: गीतमस्ति
मोक्षफलत्वेन चायं शांतोरसः परमपुरुषार्थनिष्ठत्वात्सर्वरसेभ्यः प्रधानतमः।" भाषा- अश्रुवीणायाः भाषाप्रवाहो सरलो मनोरमभावाभिव्यञ्जकश्चास्ति। कोमलकल्पनया शब्दरमणीयतया प्राञ्चलपदविन्यासेन च समन्वितमिदं गीतात्मकखण्डकाव्यम न्यानतिशेते। भक्ति श्रद्धा समन्वित हृत्प्रदेशात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org