________________
अश्रुवीणायाः समीक्षणम् । १९ सम्यक्श्रद्धायाः फलमवश्यमेव प्रादुर्भवति नात्र भाजनम्। चन्दनायाः श्रद्धाऽद्य फलिता जाता।तस्याशरीरोपरि स्थितालौहमयीश्रृंखला स्वर्णाभूषाऽभूत्। मुण्डिते शीर्षे श्यामाः सुविकचकचा: प्रोद्गमंलब्धवन्तः। विकृतं रूपं क्षणेनैव परमरम्यतामवाप। अहो श्रद्धायाः प्रभावः विकल्पैः न गाहनीयः।
'यन्न श्रद्धाविरचितमहो गाहनीयं विकल्पैः'P4 भक्त्युद्रेकात् भक्ताः निजकष्टान् विस्मरन्ति। चंदनबालायारपि एतादृशीअवस्था संजाता
'भक्त्युद्रेकात् स्मृतिमपि तनुं नाप्यकार्षीत् क्षुधायाः' कुल्माषदानकुर्वत्याःचन्दनाया:भव्यास्थिति:समुत्पन्ना। भगवत:कृपावशात् तस्या प्रांगणे रत्नवृष्टिरभूत् परन्तु सा अनासक्ता एव। ऊर्ध्वश्रद्धासम्पना सा सर्वं श्रेष्ठेष्टं साधितवती:
जाता यस्मिन् सपदि विफला हावभावा वसानां, कामं भीमा अपि च मरुतां कष्टपूर्णाः प्रयोगाः। तस्मिन् स्वस्मिल्लयमुपगते वीतरागे जिनेन्द्र,
मोधो जातो महति सुतरामश्रुवीणा-निनादः।” भावपदार्थानां मूर्त्तचित्रोपस्थापनं महाकवेर्महाप्रज्ञस्य वैशिष्ट्यम्। श्रीकृष्णमिश्रस्य प्रबोधचन्द्रोदये विवेकमोह श्रद्धारति-कामक्रोधादीनां पात्ररूपेणोपस्थानंकृतमस्ति ।काव्येऽस्मिन्सारस्वतोमहाप्रज्ञःअमूर्तचित्रणकलायां चतुरोऽस्ति ।मेघदूतवदत्रापि वाष्पमिश्रित-शब्दैः (निर्जीवपदार्थेण) दौत्यकार्यस्य निरूपणंकृतमस्ति। निर्जीवपदार्थेषु जीवत्वारोपणं महाप्रज्ञस्य महनीयमेधायाः निदर्शनम्।
श्रद्धायाः सौन्दर्यम्-श्रद्धा अवितथा सर्वप्रापणसमर्था। श्रद्धयैव भक्ताः भगवंतमाप्नुवन्ति प्रियतमा प्रियतमगृहेषुगच्छन्तिच।महाकविर्महाप्रज्ञः श्रद्धायाः परिषाभाषां भाषयनेव काव्यमारभति
श्रद्धे! मुग्धान् प्रणयसि शिशून् दुग्ध-दिग्धास्यदन्तान्, भद्रानज्ञान् वचसि निरतांस्तर्कबाणैरदिग्धान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org