________________
१८ / अश्रुवीणा
भक्ताः भगवन्तमेव उपलम्भन्ति ।चन्दनबालाऽपि भगवन्तं महावीरं उपालम्भं ददाति:
राज्यं त्यक्तुं परनृपतिना पारवश्यं प्रणीता, प्राणान्तोऽपि स्फुटितनयनैरेभिरालोकि मातुः। वेश्याहर्थेऽप्यरुचिगमनं प्रापिता विक्रयेण, विक्रेत्राहँ विपणिसरणौ मूल्यमायोजिभूयः॥ बद्धाक्रूरं करचरणयोः शृंखलैरायसैऱ्या, मूर्तिंप्राप्ताविकचशिरसि प्रज्वलन्त्यः शलाकाः। कष्टाश्रूणां सरिति सततं मग्नमास्यं विलोक्य,
त्वां यत्फुल्लं तदपि भगवन् ! न त्वया द्रष्टुमिष्टम्॥" आत्मनिरीक्षणं कुर्वती सा बाला एवं चिन्तयति यत् भगवान् पूर्वं भिक्षाग्रहणं विना प्रतिगतवानासीदित्यस्य कारणं न कुल्माषाः न ममदरिद्रता चापितु मम हषोत्कर्फवास्ति यतः अति प्रयोगो निषिद्धः -
कुल्माषा नाऽजनिषत तवेतः प्रतिक्रान्ति हेतु :, स्वादोनाम स्पृशति न पलं त्यक्तदेहस्य जिह्वाम्। नि:स्वत्वञ्चाप्य भवदिह नो मुक्त सर्वस्वक स्य,
हर्षोत्कर्षोऽभवदिति यतोऽति प्रयोगो निषिद्धः॥2 तदानीमेव पूर्ववृतान्तं स्मरति सा। पृष्ठावलोकनशैल्यां तस्या पूर्वजीवनमुपस्थापयति कविः
यां मन्येऽहं सदयहृदयां मातरं निश्छलात्मा, सा मामेवं नयति भगवन्! निग्रहं मन्तु-बुद्धया। कश्चित् क्रूरो ग्रह इह परिक्रामतीति प्रभाते, चित्रं प्राची स्पृशति तरणौ नाधुनाप्यस्तमेति ॥ एषा बद्धा नृपति-दुहिता नेति किञ्चित् विचित्रं, एषा बद्धा त्वयि कृतमतिश्चित्रमेतद् विशिष्टम्। भावोद्रे कं लघु गतवती विस्मृतात्मा बभूव, सा का श्रद्धां न खलु जनयेद् विस्मृति स्थूलतायाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org