SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अश्रुवीणायाः समीक्षणम् । १७ आशानिराशयोन्तर्द्वन्द्वादेव चरित्रस्य विकासो भवति । महावीरे प्रतिगते सति चन्दनायाराशावल्लरी विनष्टाजाता परन्तु कञ्चिद्-कालानन्तरं आन्तरिकीशक्तिं समुद्भाव्य वाष्पानावाह्य च एवमुवाचः - 'वाष्पाः! आशु व्रजेतेति' शेषं तु पञ्चसंख्यात्मक पादटिप्पण्यां दृश्यम्। दैन्यावस्थायां शब्दैः निजव्यथां निरूपयती सा बाला स्त्रीधनस्य विवरणं विवृणोति ।साऽपि एतादृशसम्पत्तिशालिनी।हे आस्वादन चतुरा आस्वाद्यन्ताम् श्रद्धाश्रूणि प्रकृतिमृदुता मानसोद्घाटनानि, निश्वासाश्चाखिलमपि मया स्त्रीधनं विन्ययोजि। सानुक्रोशो मयि परमतः सैष भावी नवेति, सापेक्षाणामपरमपरं स्याज्जगत्तत्परेषाम् ॥” विरहव्यथितानां यारनिद्रास्वप्नदर्शनादिविविधाऽवस्थाः भवन्ति ताः चन्दनबालायां लक्ष्यन्ते: धन्या निद्रा स्मृतिपरिवृढं निहते या न देवं, धन्याः स्वप्नाः सुचिरमसकृद् ये च साक्षान्नयन्ते ॥ नैराश्यपीडितायाः विरहिण्याः निश्वाससमन्वितध्वनिभिः गगनं परिव्याप्तं भवतिः नैराश्येन ज्वलति हृदये तापलब्धोद्भवानां, निःश्वासानां ध्वनिभिरुदितै-हिरे व्योम-मार्गाः॥" भगवान्महावीरो चन्दनबालायाः भक्तिप्रभावाद् पुनश्च भिक्षाग्रहितुकामो प्रत्यागतः परन्तु सा विश्वस्तानाभूत्। चंचलभावेषु मज्जनोन्मज्जमानायाः कातरभूतायाः चन्दनबालायाः रूपलावण्यमत्रावलोकनीयम् आश्वस्तापि क्षणमथ न सा वाष्पसङ्ग मुमोच, प्लुष्टो लोकः पिबति पयसा फूत्कृतैश्चापि तक्रम्। संप्रेक्षायामधृतितरलाश्चक्षुषां कातराणामासन् भावाः किमिव दधतो मज्जनोन्मज्जनानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003074
Book TitleAshruvina
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1999
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari & Sermon
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy