________________
१४ / अश्रुवीणा
संवादनिरूपणम्- ग्रन्थोऽयं गीतात्मकखंडकाव्योऽस्ति। अततस्मात् संवादस्य नगण्यत्वंविद्यते। परन्तु यत्किञ्चिदस्ति स वैशिष्ट्यविशिष्टो परमचमत्कार-जनकश्च । यथा मेघदूते यक्ष: मेघेन स्वदयभावनां निवेदयति तथैवात्र कुमारी चन्दनबाला निजाश्रुभिरेव स्वव्यथां कथयति
वाष्पा! आशु व्रजत नयतेक्षध्वमेष प्रयाति, साक्षात्प्राप्तः परिचितवृषैः प्रापणीयस्तपस्वी। सार्थञ्चैकोऽनुभवति विपद्भारमोक्षश्च युष्मां
लब्ध्वा नान्यो भवति शरणं तत्र यूयं सहायाः। वाष्पारमोघशक्तिसम्पन्नाः विपत्कालस्यानन्यसहायाश्च। गायति कविः महाप्रज्ञ:
चित्राशक्तिः सकलविदिता हन्तयुष्मासु भाति, रोद्ध यान्नाक्षमत पृतना नापि कुन्ताग्रमुग्रम्। खातं गर्ता गहनगहनं पर्वतश्चापगाऽपि,
मग्नाः सद्यो वहति विरलं तेऽपि युष्मत्प्रवाहे ।। वाष्पकलितशब्दैः सह वार्तालापं कुर्वती सा एवमाह
सद्यो वातावरणमखिलं क्षोभयन्त्यो लहर्यो, युष्माकं तं निरुपममहो ध्यानलीन समेत्य। क्षोभात्मानं निजकमुचितं विस्मरेयुर्न भावं,
कश्चिच्चित्रो भवति भुवने यन्महात्म प्रभावः। चरित्रचित्रनम-चरित्रचित्रणकलायांसफलोमहाकविर्महाप्रज्ञः।अश्रुवीणायाः पात्राणां द्वैविध्यं लक्ष्यते-तद्यथा
1. मानवीय पात्रविशेषाः भगवान्महावीरः कुमारीचन्दनबाला, दधिबाहनशतानीको कामुकरथिक: वेश्यावणिको वणिकपत्नी च।
2. अमूर्ताचेतनपात्रविशेषाः यथा श्रद्धाशब्दादयश्च ।
मानवीयपात्रेषु प्रथमस्तु भगवतः महावीरस्योपन्यास क्रियते। स तु भारतीयवाङ्मये प्रथितचरित्रोऽस्ति। वैशाली-लिच्छवीगणराज्यस्य क्षत्रिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org