________________
अश्रुवीणायाः समीक्षणम् । १३ सैव काव्यसमीक्षायां कथावस्तुरित्यभिधीयते। 'खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारिचे"तिलक्षणलक्षितस्य खण्डकाव्यस्यानुरूपैवचिदाह्लादक रूपलावण्यसम्पन्नाया:चारुचर्चित चन्दनबालायाःमुक्तिकथानकं महाकविनाऽत्र विन्यस्तम्।
एकदा कौशाम्ब्याः क्रूरकर्मानृपतिशतानीकेन दधिवाहनस्यराज्यचम्पोपरि आक्रमणमकारि । तस्मिन्युद्धे दधिवाहनो पञ्चत्वंगतः शतानीकस्य क्रूरैकरथिकः दधिवाहनस्यराज्ञी धारिणी राजकुमारी वसमती चापहार। कामुकरथिकस्य कामेच्छया संतप्ता वरेण्याधारिणी जिह्वामाकृष्य प्राणान्त्यज्य शीलमरक्षत्। वसुमतीऽपि निजमातुरनुसरणं कर्तुमिच्छतीति ज्ञात्वा रथिको भयाद्भीतो कुमारी प्रतिनिवेदयत् यत् मा भैषी त्वं ममभगिनीरूपा अतएव ममकामेच्छा विगलिता केवलमापणे विक्रेतुमहमिच्छामि ।रथिकेन सा दासविपणौ विक्रयं नीता । ततश्च कश्चित्वेश्यया कृता परन्तु वेश्याकर्म कथमपि न स्वीचकार ततः सा पुनरपि दासविपणौ विक्रीता श्रेष्ठिनाकृता। तेन श्रेष्ठिना एव 'वसुमती चन्दनवत् सुन्दरीति तस्या चन्दनबालेति अभिधानं कृतमस्ति ।एकदा श्रेष्ठिवर-धन्नवाहस्य पत्नी ममपतिरिमां पत्नीरूपेण स्वीकरिष्यतीति संदेहसंकुलाभूत्वा चन्दनबालायाः शिरोमुण्डनंकारयित्वा करचरणेषु श्रृंखलनिगडौ दत्वा एकस्मिन्विजनेऽपवारके स्थापयत्।
तदानीमेव भगवान्महावीरो क्रीताकन्यानृपतितनयेति' विविधलक्षणलक्षितकन्ययाएवभिक्षांग्रहिष्यामीति अभिग्रहं कृत्वा गृहं गृहं पर्यटन् चन्दनबालायाः समीपे आगतवान्। हर्षयुक्तायां चन्दनबालायां सर्वाभिग्रहाङ्काः विद्यमानाः परन्तु अश्रुविन्दवः नासनतस्मात् भगवान् परावर्तितः। तस्या अश्रुधारा प्रस्फुटिता। अश्रुधारामाध्यमेन सा बाला निजव्यथाकथां भगवताऽनिवेदयत्। अश्रुप्रवाहं दृष्टवा किंवा श्रद्धाभक्तिपूर्वकाहानेन भगवान् पुनरागत्यं भिक्षामगृह्णदिति।भिक्षाग्रहितेसति श्रद्धाभक्तिवशात् चन्दनबालायाः सर्वं भव्यं जातम्।
कथानकेऽस्मिन् कल्पनाभावना-सहजाभिव्यक्ति -चित्रात्मकतादीनां प्रभूतनिदर्शनमस्ति। श्रद्धायाः सौन्दर्यमत्रावलोकनीयम्। जैनपरम्परानुसारेण कथानकस्य परमविश्रान्तिः निर्वाणरूपानन्दनिकेतने भवति। चंदनबाला दीक्षितासाध्वीभूत्वा भगवान्महावीरसंघस्य साध्वीप्रमुखाऽभूदिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org