________________
अश्रुवीणायाः समीक्षणम् कारयित्री-सहजप्रतिभासम्पन्न-श्रुतज्ञानशीलचरित्रनिष्ठभारतीयविद्याविशिष्टस्य श्वेताम्बरजैनपरम्परायां जैनोजनधर्मेति-विज्ञाप्यमानस्य तेरापंथधर्मसंघस्य दशमाचार्यस्य सारस्वत-प्रायोजनिककवेर्महाप्रज्ञस्य अश्रुवीणे'त्याख्यैकं गीतध्वनिसम्पन्नशतश्लोकात्मकं खण्डकाव्यमस्ति। यदा आचार्यो महाप्रज्ञः मुनिनथमलरूपेण प्रसिद्धासीत् तदैव कलिकातानगरे चम्पानगराधिराजदधिवाहनस्यात्माजाया:चन्दनबालायाःकारुणिकीकथामवलम्ब्य काव्यमेतच्चकार। प्रबन्धेऽस्मिन् भारतीयसमीक्षाशास्त्रमनुसृत्य अश्रुवीणायाः समीक्षणमवधेयः। भारतीयाचार्याः वस्तुनेतारसादीनामुपरि समीक्षादृष्टिं नयन्ति यतः दशरूपके इत्थं प्रवाचितमस्ति यत् वस्तुनेतारसस्तेषां भेदक: इति । अर्थात् वस्तुतत्त्वपात्रचित्रणरसादीनामवलम्बनं कृत्वा काव्य. मालोच्यन्ते आचार्याः। रसशब्दोपलक्षणात् भावभाषाशैल्यादीनामपि संग्रहणं भवति। पाश्चात्यसमीक्षाशास्त्रेऽधोविन्यस्ततत्त्वानां निरूपणकृतमस्ति:- कथावस्तुः, चरित्रचित्रणम्, शैली विचाराभिनेयतागीतञ्च। अत्राधस्तन-तत्त्वानवलम्ब्य अश्रुवीणायाः समीक्षणकार्यस्य विनम्रप्रयासो क्रियते:
1. कथावस्तुविवेचनम् 2. संवादनिरूपणम् 3. पात्रचित्रणम् 4. रसविमर्शः 5. भाषाशैली 6. उद्देश्यश्च।
1. अश्रुवीणायाः कथावस्तुविवेचनम् - यदा प्रचेताकविरैतिहासिकी-कथां निजकमनीयकला-रमणीयकल्पना-मनोरमभावनासुपरिवेष्ट्य पुनर्प्रस्तावनं करोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org