________________
१० / अश्रुवीणा
भाषा कदाचिन्न मृताऽमृता स्यात्, भाषाज्ञ एवापि मृतोऽमृतः स्यात्, भाषामुपादाय जनाश्चलन्ति12
तेषा गतिः स्याच्च समीक्षणीया॥ तृतीयविभागे समस्यापूर्त्यात्मकश्लोकाः सन्ति। चतुर्थपंचमविभागयोः सत्संगजैनशासनयोश्च निरूपणं विद्यते। जैनशासने त्याख्ये विभागे महावीरआचार्य-सिद्ध-भिक्षु-कालू-तुलसीगणीनाञ्च स्तवनं भक्तकविणा महाप्रज्ञेन कृतमस्ति । स्तुतिकाव्य दृष्टया विभागोऽयं महत्त्वपूर्णोऽस्ति।
5. रत्नपालचरितम् - चरित्रगुणशीलनिरूपक चरितकाव्यलक्षणलक्षिते पंचसर्गात्मकेऽस्मिन् खण्डकाव्ये रत्नपालरत्नवत्योश्च कथा जैनकथास्था पत्य सरणिमाश्रित्य आचार्य प्रवरेण निगदिता। काव्यकलायाः कोमलकल्पनायाः भावसौन्दर्यस्य च दृष्ट या श्रेष्ठ काव्यग्रन्थेऽस्मिन् महाकवेर्महाप्रज्ञस्य जीवनदर्शनस्योपस्थापनं स्पष्टरूपेण परिलक्षितं भवति ।महाकविरयं श्रमणाचार्यः तस्मात् "समयाधम्ममुदाहरे मुणी' इति आगमिकी वाणीमवलम्ब्य समत्वं संसाधयन् ‘चारितं खलु धम्मो ति' चारित्रमाचरन् समत्वस्य चारित्रस्य च प्रतिरूपतां प्राप्तवान् । रत्नपालचरितान्तर्गते वृक्षाणां वचनेन प्रवाचयति कविः यत् मनुष्यानां क्षमा परमो धर्मः -
छिन्दन्ति भिन्दन्ति जनास्तथापि पूत्कूर्महे नो तव सन्निधाने । क्षमातनूजा इति सम्प्र धार्य
क्षमां वहामो न रुषं सृजामः ॥14 महर्षिगुण गुम्फितोऽयं महाकविः गुरुचरणेषु अखण्डात्मिकावृत्तिसम्पन्नः। मधुकराणां चञ्चलात्मिकां वृतिमवधीरयन् एवं कथयति -
भ्रमर ! रे निपुणोसि कुतोऽर्जिता मतिरियं परमार्थपराङ्मुखा। भ्रमसि पद्मरते दिवसे भृशं कुमुद मा व्रजसि क्षणदा क्षणे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org