________________
आचार्यश्रीमहाप्रज्ञस्य संस्कृतसाहित्यावदानम् / ९ सत्संपर्का दधति न पदं कर्कशा यत्र तर्काः। सर्वं द्वैधं व्रजति विलयं नाम विश्वासभूमौ ॥ सर्वेस्वादाः प्रकृतिसुलभाः दुर्लभाश्चानुभूताः
श्रद्धास्वादो न खलु रसितो हारितं तेन जन्म' । वाष्पा:अप्रतिहतशक्ति अवितथगतिसम्पन्ना:विपत्कालस्यानन्य सहायाश्च । गायति महाकविर्महाप्रज्ञः -
चित्रा शक्तिः सकलविदिता हन्तयुष्मासु भाति, रोद्धं यान्नाक्षमत पृतना नापि कुन्ताग्रमुग्रम् । खातं गर्ता गहनगहनं पर्वतश्चापगाऽपि
मग्नाः सद्यो वहति विरलं तेऽपि युष्मत्प्रवाहे ॥ 3. मुकुलम् - संस्कृताध्ययनोत्सुकेभ्य:छात्रेभ्यः सरलरीत्या भाषावबोधनाय महाप्रज्ञेन विरचितानां एकोनपञ्चाशनिबन्धानां संग्रहोऽयं ग्रन्थः। मनोरमया भावव्यञ्जनया प्रसादगुणसमन्वितेन चाऽयं संस्कृतसाहित्या- नुरागीनां कृते महदुपकारकोऽस्ति।
4. अतुला-तुला - पञ्चविभागात्मकमिदं मुक्तककाव्यं महाकवेर्महाप्रज्ञस्य कवित्वबीजभूतशक्ति सम्पन्नाया:सर्वविषयग्रहणसमर्थायाः प्रतिभायाः चूड़तनिदर्शनमस्ति। विविधेत्याख्ये प्रथमविभागे स्वतन्त्रता - स्वतन्त्रभारतीविनयपत्र-मेघाष्टक-समुद्राष्टक-दुर्जनचेष्टा-पितृप्रेमा-दिविषयानां सहजशैल्यां निरुपणंकृतमस्ति । द्वितीयविभागे आचार्यप्रवर महाप्रज्ञस्य आशुकवित्वस्योदाहरणं संग्रहितमस्ति । त्वरितप्रदत्तविषयाणामुपरि कविकृतश्लोकानां रसणीयत्वं चय॑म् पद्यगतशब्दानामनुरणनत्वमपि लोकोत्तर चमत्कार जनकञ्च। पूनानगरे वाग्वर्धिनीसभायां विद्वद्भिः प्रदत्ते -
भाषामृतेति प्रवदन्ति केचित्" गीर्वाणवाणी गुणभूषिताऽपि । मुनीन्द्र! तत्त्वं कथयस्व नूनं
कथं पुनर्वैभिवशालिनी स्यात् ॥ विषयपूर्तिं कुर्वन् कविरेवमाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org