SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ८ । अश्रुवीणा संबोधिमहाकाव्यस्य मंगलवाक्येष्वेव यमकपरिकरालंकारालंकृतस्य भव्योदात्तगुणाविभूषितस्य भगवतः महावीरस्य सौन्दर्यमवलोकनीयमस्ति - ऐं ऊं स्वर्भूर्भुवस्त्रय्या-स्त्राता तीर्थंकरो महान्। वर्धमानो वर्धमानो ज्ञानदर्शन सम्पदा॥ अहिंसामाचरन् धर्म सहमानः परीषहान्। वीर इत्याख्यया ख्यातः, परान् सत्त्वानपीडयन्॥ अहिंसा तीर्थमास्थाप्य, तारयन् जनमण्डलम्। चरन् ग्रामानुग्रामं राजगृहमुपेयिवान्॥ दृष्टान्तालंकारेनोपेन्द्रवज्र छन्द समन्वितेन चास्मिनधोविन्यस्त श्लोके तृष्णायाः मोहायतनत्वं कथितमस्ति - यथा च अण्डप्रभवा बलाका, अण्डं बलाका प्रभवं यथा च । एवं च मोहायतनं हिं तृष्णा, मोहश्चतृष्णायतनं वदन्ति ॥ एवं शान्तरसोद्भावनेन माधुर्य प्रसादोदात्तगुणोपस्थापनेन यमकानुप्रासोत्प्रेक्षा परिकरादीनां साधुसंयोजनेन अनुष्टपेन्द्रोपेन्द्र वज्रादिछन्दानां प्रयोगेन सूक्तिनां सौष्ठवेण च समन्वितमिदं महाकाव्यं भव्यानां रसिकानां सहृदयचेतन जीवानाञ्च चित्तचमत्कारं करोति करिष्यतीति नात्र संदेहलेशावसरः। 2. अश्रुवीणा-दधिवाहननृपतितनयायाःचन्दनबालायाः भक्तिरसाप्लुतां कारुणिकीकथामवलम्ब्य शतश्लोकात्मकं अश्रुवीणेत्याख्यं गीत्यात्मकं खण्डकाव्यं महाकविना विरचितमस्ति। आत्मप्रकाशनात्माभिव्यंजन - रसनीयत्व-चारुत्व - कल्पना - भावना - संगीतादि गीतिकाव्य गुणैः समन्वितस्यास्यग्रन्थस्य सौन्दर्यमास्वाद्य रसलोलुपजनाः आनन्दमनुभवन्ति। ये सहृदयरसिकाः काव्यतत्त्वमर्मज्ञाः अश्रुवीणायाः प्रथमनिनादनं शृण्वन्ति ते मोदमनुभवन्ति। विश्वविख्यात संस्कृतभाषामर्मज्ञः नवनालन्दा संस्थानस्य निदेशकः डा. सतकोडीमुखर्जी महोदयः काव्यस्यास्य रसनीयत्वमास्वाद्य एवमगादीत् .......... "श्रद्धा-भावना-आंसू-भक्ति-निर्वेदादिविषयानां यादृशनिरुपणमत्रोपलभ्यते तादृशनान्यत्र" श्रद्धायाः चारुत्वं चव्यर्मस्तिः - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003074
Book TitleAshruvina
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1999
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari & Sermon
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy