SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ क्रान्तकवि महाप्रज्ञः / ३ सारस्वतोत्पादक-प्रायोजनिक-कविगुणयुक्तो विद्यते। 1. महाकविः - यः कविः श्रेष्ठप्रबन्धात्मककाव्यरचनायां निपुणो वा कुशलोवासमहाकविरित्यभिधीयते।राजशेखरेनोक्तम्- योऽन्यतर-प्रबन्धप्रवीणः स महाकविरिति । आचार्यमहाप्रज्ञः महाकविगुणसम्पन्नोऽस्ति यतः स रुचिरकथासमाश्रितानेक महाकाव्य खण्डकाव्यानां विरचयिता। संसारदुःखदुः खितायाः चन्दनबालायाःविरहकथामनुसृत्य अश्रुवीणेत्याख्यगीति काव्यमरीरचत्। शतश्लोकात्मकेऽस्मिन् गीतिकाव्ये चन्दनबालायाः चारुचित्रणं कृतमस्ति। निराशाच्छन्नमोहोपगतायाः नायिकायाः सौन्दर्यमवलोक्यम् : वाणी वक्त्रान्न च बहिरगाद् योजितौ नापि पाणी, पाञ्चालीवाऽनुभवविकला न क्रियां काञ्चिदार्हत्। सर्वैरङ्गैः सपदि युगपन्नीरवं स्तब्धताऽ ऽप्ता, बाहोऽ श्रूणामविरलमभूत् केवलं जीवनाङ्कः॥ श्रेणिकस्यात्मजमेघकुमारस्य कथामाश्रित्य जैन जीवनदर्शनसमुद्घाटक संबोधीत्याख्य षोडशसगत्मिकं महाकाव्यं विधायि। आदिनाथ प्रथमतीर्थंकर भगवान्-ऋषभ चरित्रमाश्रित्य ऋषभायणमिति' महाकाव्यं हिन्दीभाषायां विरचितवान् कविः। 2. कविराजोमहाप्रज्ञः - विविधगुणालंकारालंकृतसाधुसूक्तिसमन्वितानेकभाषाषु काव्यविरचनासमर्थो कविः कविराजेति कथ्यते । कविराज गुणगुम्फितकवयः जगति कतिपया भवन्ति - 'यस्तु तत्रभाषा विशेषे तेषु-तेषु प्रबन्धेषु तस्मिन्तस्मिंश्च रसे स्वतंत्रः स कविराजः। ते जगत्यपि कतिपये। महाप्रज्ञः कविराजः यतः स विविध भाषाषु संस्कृत-प्राकृतहिन्दीराजस्थानीषु काव्यविरचनसमर्थोऽस्तिः।महाकवेरस्य कवितानसहचरीभूताऽपितु अनुचरी एव। स्वयं कविराजो महाप्रज्ञः कथयति यत् 'कविता मम न सहचरी रूपा अपितु अनुचरीसदृशी सा ममोपरि समर्पिताऽस्ति । दार्शनिकतत्वचिन्तनेनोत्पन्नक्लान्तिकाले कवितामाश्रयाम्यहम् । 3.सारस्वतकविमहाप्रज्ञः-कवेरूपकुर्वाणासहजाकारयित्रीप्रतिभा सम्पन्नो कविः सारस्वतो इति। जन्मान्तरीयसंस्कार वशात् काव्यकरणेसमर्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003074
Book TitleAshruvina
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1999
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari & Sermon
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy