SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ २ / अश्रुवीणा कविः स्वयंभू भवति। 'कविर्मनीषीपरिभूः स्वयंभूः इतिश्रुतिः। स शब्दार्थसाहित्यमनुसृत्य अखण्डानन्, मकां रतिमन्वेषयति, विविधविचित्रचित्रणेण निजानुभूतिगतमंगलमात्रप्ररूपकार्थान् भाषयति च सचेतन सहृदय जीवानां संसारचक्र निमज्जितानां चतुर्गतिदग्धानाञ्च कल्याणार्थं मंगलार्थञ्च । गणमान्यालोचकाचार्यहजारीप्रसादद्विवेदीमतानुसारेण स एव सम्यक् साहित्यकार: यः दुःखावसादकष्टेषु मानवधर्मनिर्वाहकस्य पशुगुणविरहितस्य मनुष्यस्य पुरुषस्य वा सर्जनं करोति तथा जीवन-मरण-हर्ष-शोक-निंदा-प्रशंसा लाभालाभादिषु समत्वंविधाय 'समो निंदा पसंसास''समया धम्ममदाहरे मणी' इत्याद्यागमवचनमनुसृत्य निजकर्त्तव्यनिष्ठायां निष्ठितो भवति । महाप्रज्ञो एतादृशो साहित्यकार:कविश्चास्ति । समग्रमहाप्रज्ञ साहित्यान्वेषणेनैतादृशी संज्ञा संज्ञापिता भवति यत् कविरयं सत्यस्यावितथमार्गस्य प्रकाशको प्ररूपकश्च। अनन्तशक्तिरूपाव्याबाधसुखलक्षितानन्दप्राप्तिरे व महाप्रज्ञकवेर्लक्ष्यम् । संबोधीत्याख्यस्य महाकाव्यास्यवसाने कथयति महाकविः निर्मला जायते दृष्टिार्गः स्याद् दृष्टिमागतः। मोहश्च विलयं गच्छेन्मुक्तिस्तस्य प्रजायते। अध कः कविः? कौति शब्दायते विमृशति रसभावानिति कविः लोकोत्तरवस्तुवर्णन समर्थः कविः। कविः प्रजापतिः काव्यसंसारैव तस्य सृष्टिः अपारे काव्यसंसारे कविरेकः प्रजापतिः यथास्मै रोचते विश्वं तथा विपरिवर्तते।। कविसृष्टिः नियतकृतनियमरहिता केवलालादमयी च। कथितं च मम्मटाचार्येण - नियतिकृत नियमरहितामाह्लादैक मयीमनन्यपरतंत्राम्। नवरसरुचिरां निर्मितिमादधती भारती कर्वेर्जयति ॥ लोकशास्त्रावगाहनात् सहजाप्रतिभावशाच्च प्राप्तनुभूतिं रसभाव समुज्जवलमनोरमशब्दविन्यासै:अभिव्यनक्तिस कविः। नवनवोन्मेषशालिनीप्रतिभाविशिष्टो महाप्रज्ञः श्रेष्ठकविरस्ति। कविगुणसमीक्षादृष्टया स महाकवि-कविराज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003074
Book TitleAshruvina
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1999
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari & Sermon
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy