SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्ररोचना क्रान्तकावः महाप्रज्ञः श्रुतविद्यातपवीर्यशीलनिरतस्य जैनश्वेताम्बरतेरापंथधर्मसंघस्य दशमाचार्यो निजसाधनानिरस्ताखिलकल्मषकषायानां भारतज्योतिवाक्पतिराष्ट्रीयैकतादिविविधसम्मान सम्मानितानां पूज्यवराणां तुलसीगणीनां शिष्टशिष्यः अवितथसत्यान्वेषक प्रज्ञासमन्वितसार्थकाभिधानान्वितमहाप्राज्ञोमहा प्रज्ञः अहिं सासत्यसमताशिव-स्वरूपभूतमनुजधर्मध्वन्युद्घोषक : कमनीयकविकलाकलनार्ह : विविधरत्नगभीरविद्याम्बुधिनिमज्जन समर्थः सरस्वतीवरदवत्सः भारत वसुन्धरान्तर्गतराजस्थानरत्नगर्भेत्याख्यजननीजनितः श्री गुरुतुलसीकुलभूषणः, भारतीयदार्शनिकवैज्ञानिक प्रेक्षासाहित्यकाशभास्वरोभास्कर:समाधिरूपान्तर सामर्थ्यसमन्वितः जैनागमप्रकृष्टव्याख्याता गवेषकश्चास्ति। विद्यासभ्यताविरहितग्राम्यजीवनोत्पन्नो नत्थु' इति बाल नामयुक्तो महाप्रज्ञः एकादश वर्षावस्थायामाचार्यकालुगणीसमीपे जैन भागवती दीक्षां गृहित्वा मुनिनथमलो भूत्वा तपस्वाध्यायाध्ययनैः नकेवलपूज्यगुरुदेवतुलसीगणानामपितु सम्पूर्णभारतवसुन्धरायां वरेण्यविद्वत्सभाषु अतिप्रसिद्धिमवाप। सहस्रावधानविद्याप्रयोगेन तत्कालीनसभ्यसामाजिकानां चेतांसि चमत्कृतवानिति। मुनिनथमलो अतिजवादेव निजपुरुषार्थबलाद् तेरापंथधर्मसंघस्य युवाचार्यपदमलंकृतावान्। नवतिचतुराधि कोनविंशतितमे सुजानगढ़नगरस्य लक्षाधिकजनसंकुलसभायां गुरुतुलसीगणीनामाज्ञां शिरसि निधायाचार्यपदं स्वीचकार। धार्मिक संसारे एतादृशी व्यवस्था नगण्या एव यत् गुरुसमक्षमेव शिष्यः आचार्यपदमलंकरोत्। इदानीं तु महाप्रज्ञः आचार्यदार्शनिकाशुकविरूपेण प्रसिद्धिमवाप्नोति। निबन्धेऽस्मिन् महाप्रज्ञस्य क्रान्तधर्मित्वं गुणसम्पन्नकवित्वं विचार्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003074
Book TitleAshruvina
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1999
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari & Sermon
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy