SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ४ / अश्रुवीणा नैसर्गिकशक्तिसम्पन्नश्च सारस्वतो भवति। निर्भयराजोपाध्यायः कथयति - 'जन्मान्तरसंस्कारप्रवृत्तसारस्वतीको बुद्धिमान् सारस्वतः। 11 सारस्वतो स्वतन्त्रश्च ।2 महाप्रज्ञो सारस्वतो कविरस्ति। स च शब्दग्राममर्थसार्थमलङ्कार तन्त्रमुक्तिमार्गमन्यदपि तथाविधमधिहृदयं प्रतिभासयित्री प्रतिभाविशिष्टः । अश्रुवीणायां श्रद्धासौन्दर्यनिरूपणावसरे विरहव्यथितायाः चन्दनबालायाः प्रसंगे च कवेप्रतिभायाः प्रतिभासनं भवति। श्रद्धायाः सौन्दर्यम् - तत्रानन्दः स्फुरति सुमहान् यत्रवाणी श्रिताऽसि, दुःखं तत्रोच्छलति विपुलं यत्र मौनावलम्बा। किंवाऽऽनन्दः किमसुखमिदं भाषसे सम्प्रयोग, त्वामाक्षिप्य स्वमतिजटिलास्तार्किका अत्रमूढाः। रत्नपालचरित्तकाव्ये महाकविर्कालिदासवत् प्रकृतेर्मानवीकरणकरणे कविरयं चतुरोऽस्ति। कुमार रत्नपालेन विगर्हि ते सति रात्री मर्म भेदिनीवाणीमाह : परमहो! मनुजा अविवेकिनो, नहि भवन्ति रहस्यविदः क्वचिद् । अपचिकीर्षव एव तमो मम, गृहमणेर्निचयान्मनसो न च ॥ वृक्षाः राजा रत्नपालेन एवं निवेदयन्ति : छिन्दन्ति भिन्दन्ति जनास्तथाति पूत्कुर्महे नो तव सन्निधाने। क्षमातनूजा इति संप्रधार्य क्षमां वहामो न रुषं सृजामः॥ नृपतेर्महत्त्वं विवृण्वन् कथयति पृथ्वी - त्वं रत्नपालोऽसि वसुन्धराहं, स्यां पालनीयाङ्गज पालकत्वात्। मन्ये धरित्रीत्यनुरुद्धय चक्रे, तं रत्नपालं महिपालमत्र ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003074
Book TitleAshruvina
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1999
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari & Sermon
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy