________________
तदादेशास्तद्वद्भयन्तीति न्यायात् साध्यसिद्धिर्भविष्यति किं बहुवचनेन ? सत्यं, न्याय विनाऽपीत्थं साधितं, इयं हि महती शक्तिर्यत्परिभाषां न्यायांश्च विना साध्यत इति ।
'स्त्यादिविभक्तिः।१-१-१९॥ विभज्यन्ते विभागशः प्रकाश्यन्ते कर्तृकर्मादयोऽर्था अनयेति “ श्वादिभ्यः" इति क्तिः । अनुबध्यते कार्यार्थमुपदिश्यत इत्यनु5 बन्ध । इत उत्सृष्टः-त्यक्तोऽनुबन्धो येन यस्य वा स तथा तस्य । व्यवस्थावाचीति
तेम ये यदनुबन्धा यावन्तो विभक्तिसंज्ञायां पूर्वाचार्यैर्व्यवस्थापितास्त एव तदनुबन्धा एव तावन्त एवाऽनुगृह्यन्त इति ।
'तदन्तं पदम् ।।१-१-२० ॥ पद्यते-गम्यते कारकसंसृष्टोऽर्थोऽनेनेति पदं " वर्षादयः " इत्यल् । नन्वन्तग्रहणं किमर्थं ? सत्यं, न चाऽसत्यन्तग्रहणे सा पदमिति 10 कृते स्यादेरेव पदसंज्ञा स्यात्ततश्चाऽग्निष्वित्यादौ पदमध्ये विधीयमानं षत्वं पदादौ न
स्यादिति वाच्यम् , “ प्रत्ययः प्रकृत्यादेः" इति परिभाषया तदन्तविधेर्लब्धत्वादिति ? सत्यं, पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणेन तदन्तप्रतिषेधार्थ, अन्यथा " प्रत्ययः प्रकृत्यादेः” इति परिभाषया स्याद्यन्तस्य विभक्तिसंज्ञा स्यात् ,
तस्यां च सत्यां काष्ठगृहं युष्मत्पुत्राणामित्यादौ काष्ठशब्दस्य गृहमिति विभक्या 15 पदत्वे ततः परस्य युष्मदः स्थाने पुत्राणामिति विभक्त्या सह वसादेशः स्यादित्य
तिव्याप्तिः, ददाति नः शास्त्रमित्यादौ च ददातीत्यादेविभक्तिसंज्ञकत्वेन पदाभावानस् न स्यादित्यव्याप्तिरिति ते मा भूतामित्यन्तग्रहणम् ।
'नामसिदरव्यञ्जने'।१-१-२१॥ नमति धातवे इति, नमति प्रहीभावं गच्छत्यर्थं प्रति इति, "सात्मन्नात्मन्" इति निपातनान्नामशब्दः साधुः। वेति विशि20 ष्टार्थप्रतीति जनयतीति विः, " नीवीप्रेहभ्यो" डिदिति डिद् इः। ऊर्णायुरिति-अत्र
पदत्वात् “ अवर्णेवर्णस्य " इत्यनेन आलोपो न भवति, तत्र " नोऽपैदस्य" इत्यतोऽपदस्येत्यधिकारागमनात् । दृत्वमिति-पश्यतीति दर्शनमिति-दृश्यतेऽनयेति वा किपि दृश् । यज्वेति-इष्टवान् यज्वा " सुयजो निप्" । ननु नामसिदव्यञ्जन इत्येव क्रियतां
किं य वर्जनेन ? न च वाच्यतीत्यादावपि पदसंज्ञाप्राप्तिरिति वाच्यं, यतो व्यञ्जनद्वा25 राऽनेनैव राजीयतीत्यादौ पदत्वे सिद्धे " नं क्य" इति सूत्रं नियमसूत्रतया व्याख्या
स्यते, नकारान्तमेव क्यप्रत्यये पदसंज्ञं भवति नाऽन्यदिति, नान्तं क्यप्रत्यय एव पदं न प्रत्ययान्तर इति विपरीतनियमोऽपि कथं न भवति ? तथा च राजा सीमेत्यादा
१५-३-९२ । २५-३-२९ । ३ ७-४-११५। ४ उ-९१६ । ५ उ ६१६ । ६ ७-४-६८। ७७-४-६१८५-१-१७२ । ९१-१-२२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org