________________
(१७) बपि पदत्वं न स्यादिति चेत् तन्न “ युवाखलति" इत्यादिनिर्देशात् , सत्यं, यवर्जनाभावे सत्सु साधु सत्यमित्यादिषु नामसिदिति पदसंज्ञा स्यादित्येतदर्थ यवर्जनमिति । राजतेत्यादि, सौश्रुतमित्यादौ नियमस्य चरितार्थत्वात् पयोम्यामित्यादौ चाऽय्व्यअनमित्यस्य राजतादृक्त्वमित्यत्रोभयप्राप्ती " स्पर्धे परम्" इति न्यायाद् व्यञ्जनाश्रितं पदत्वं भवति ।
'नं क्ये'। १-१-२२॥ चर्मायतीति चर्मणः प्रागतत्तत्त्वासम्भवाद् व्यर्थाभावे क्यक्षु न प्राप्नोतीति तद्वद्वत्तेश्चर्मनशब्दात्प्रत्ययः । अचर्मवान् चर्मवान् भवतीति, यथा निद्रायतीत्यादि । अयितीति-अन्तर्वतिन्या विभक्त्या “ तदन्तं पदम्” इति पदत्वं प्राप्तं तत्सित्येवेति नियमेनाऽपोदितमपि व्यञ्जन इत्यंशेन पुनः प्रसूतम् , ततोऽयिति प्रतिषेधेन प्रतिषिद्धमनेन प्रतिप्रसूयते ।
10 'नस्तं मत्वर्थे । १-१-२३ ॥ मतुर्मत्वर्थोऽर्थो यस्येति समानाधिकरणो बहुव्रीहिः। यथोष्ट्रो मुखमस्येत्युष्ट्रमुख इत्यत्र, नहि प्राणी प्राण्यन्तरस्य साक्षान्मुखं भवतीति सामर्थ्यात्सादृश्यप्रतीतिः, समग्रेण चोष्ट्रेण सह सादृश्याभावादुष्ट्रशब्दोऽवयवे वर्तते, मुखेनैव मुखसादृश्यं प्रसिद्धमिति सामर्थ्यान्मुखमिव मुखमस्येत्यर्थोऽवतिष्ठते, एवमिहाऽर्थेन मतुशब्दस्याऽर्थेन सामानाधिकरण्यमनुपपद्यमानं मतुशब्दं मत्वर्थवृत्तिं 15 गमयतीत्युक्ते मतोरपि । मतुशब्दस्याऽपि मत्वर्थाव्यभिचारान्मत्वर्थन ग्रहणमिति । पेचुष्मानिति-" स्थानीवाऽवर्णविधौ” इति न्यायेनाऽपदसंज्ञस्याऽऽदेशोऽप्यपदमित्युषादेशे कृते सन्तत्वाभावेऽपदत्वाद् “धुटस्तृतीयः” इति षस्य डत्वं न भवति ।
'मनुर्नभोगिरोवति' । १-१-२४ ॥ इति शब्दः सान्त उकारान्तमनुशब्दवत्प्रजापतौ वर्तते, न भातीति असित्यसि " नखादयः" इति नरवादित्वाद्, भसभ- 20 जनदीप्त्योरित्यस्य भसेनवभस्तीति विपि नभ्यतीत्यसि वा नभाः-श्रावणः, नम आकाशं तद्वनभस्वत् अयं शब्दः पाणिनीये शाकटायने च छान्दसो निर्णीतः, परं लोकप्रसिद्धया शाकटायन एतदर्थ सूत्रं चकार, ततो लौकिकप्रयोगो नभोवदिति द्रष्टव्यः ।
'वृत्त्यन्तोऽसषे'। १-१-२५ ॥ वर्तन-वृत्तिः क्तिःवर्तनव्यापारवतीत्यर्थः, वर्तनं त्ववयवार्थापेक्षया परस्य समुदायार्थस्य प्रतिपादनं, यद्वा वर्तिपीष्ट परार्थमभि- 25 धेयादित्याशास्यमाना वृत्तिः कर्तरि तिक्, यद्वा वर्तन्ते स्वार्थपरित्यागेन पदान्यत्रेत्याधारे तो वृत्तिः पदसमुदायादिरूपा, सा त्रेधा-समीसवृत्तिः, तर्द्धितान्तवृत्तिः,
१३-१-११३ । २ ५-४-११९ । ३ १-१-२० । ४७-४-१०९। ६३-२-१२८ ।
५ २-१-७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org