SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ (१८) नामधातुवृत्तिश्चेति; राजपुरुष, औपगवं, पुत्रकाम्यतीत्यादि । परार्थाभिधानमितिअवयवार्थापेक्षया परोऽर्थः, समुदायार्थो यद्वाऽवयवपदापेक्षया समुदायः परमदिवलक्षणः परः तस्याऽर्थस्तस्याऽभिधानम् । अनेकार्थत्वात्परार्थाभिधानेऽपि वृत्तिशब्दः । अवसानमिति अवसीयतेऽस्मिन्नित्यवसानम् । लीढ इति लिहौ किए, शुनो लिहौ 5 श्वलिहौ, " षष्ठ्ययत्नाच्छेषे” इति समास इति कर्तव्यं, न तु श्वानं लीढ इति: यतस्तस्मिन् कृते “ गतिकारकः” इति किबन्तेन लिह इत्यनेन समासे सति लिहू इत्यस्याऽविभक्त्यन्तत्वेन पदत्वप्राप्तिरेव नाऽस्तीति । राजवागिति-अत्राऽन्तग्रहणात्पूर्वस्य पदत्वे सति न लोपः, तथाऽवयवाश्रितपदत्वप्रतिषेधेऽपि समुदायविभ त्याश्रितं पदत्वमस्तीति कत्वं बभूवेति । वाक्त्वकच इति-अत्र वाक्छब्दापेक्षया 10 त्वक्छन्दो वृत्त्यन्त इति परस्याऽऽशय इति । वाक्त्वचमिति-अत्र समासान्ते कृते वृत्तिरकारान्ता भवति, न तत्र त्वगिति वृत्यन्तः ततो "वृत्त्यन्तोऽसषे” इति पदत्वप्रतिषेधस्त्वचो न प्राप्नोति, समाधत्त-उच्यत इत्यादिना अयमर्थः समासात्समासान्तो विधीयमानस्तस्यैवाऽन्तत्वं व्याहन्ति, न तु तदवयवस्य त्वचः तस्य समासावयवत्वात् । नहि समुदायस्याऽवयवोऽवयवस्याऽवयवो भवति । यद्वेत्थं 15 व्याख्या-समासशब्देन समासावयवोऽभिधीयते, ततः समासात्समासावयवावचः समासान्तो विधीयत इति, भवत्ववृत्यन्तत्वं त्वचस्तथापि सित्येवेति नियमेन पदत्वं निवर्तत इति भावः । अथवा समासात्परः समासान्तो विधीयते ततः स्यादेः पूर्वस्त्वच एव परो भवतीत्यस्तु अवृत्त्यन्तत्वं त्वचः तत्र च पदत्वप्राप्तिरेव नास्तीति कत्वाभाव इति । समास शब्दस्तु लक्ष्यवशात् कचित्समासावयवं 20 क्वचित्समासं चाऽऽहेति । दधिसेगिति-सिञ्चतीति विच् ततो दनः सेक् इत्येव कार्य, दधि सिञ्चतीति तु न, यतः 'सोपपदात्सिचेविच नेष्यत' इति न्यासः । ननु बहुसर्पिषा दीर्घायुषेत्यादौ असष इति वचनात्पदमध्यत्वाभावे सस्य पत्वं न प्राप्नोतीति ? उच्यते, " व्याप्तौ स्सात्" इत्यत्र द्विसकारपाठो वृत्त्यन्तोऽसषे न पदमित्येवं, नदयस्य प्रकृतार्थगमकत्वेन, न न सषे पदमपि तु पदमेवेत्यप्राप्तताऽपि 25 पदसंज्ञा सस्य पत्वे भवतीति । अग्निसादित्यादौ पदादित्वादेव सस्य षत्वाभावानि रर्थकः सन् ज्ञापयति नत्रा निर्दिष्टं पदत्वं सस्य पत्वेऽनित्यं, ततो बहुसर्पिषेत्यादावन्ते स्थितस्य सस्य षत्वे न पदसंज्ञा, आदिस्थस्य तु सस्य पत्वे दधिसेगित्यादौ पदसंज्ञेति । 'सविशेषणमाख्यातं वाक्यम् । १-१-२६ ॥ आख्यायतेस्म क्रिया प्रधानत्वेन साध्यार्थाभिधायितया वेत्याख्यातम् । यत्र क्रियापदं कर्तरि तत्र कर्ता १३-१-७६ । २ ३-२-८५ । ३ १-१-२५ । ४ ७-२-१३० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy