________________
क्रियापदस्य समानाधिकरणं विशेषणमन्यानि व्यधिकरणानि । कर्मणि तु क्रियापदे कर्म समानाधिकरणं, साधुर्यो रक्षतु इत्यादौ साधुरिति रक्षणादिक्रियायाः कर्ता समानाधिकरणं च, रक्षतु इत्यादिक्रियापदस्य तु व इति व्यधिकरणमिति । उच्चै? वदतीति-उदश्चतीत्युच्चैः "न्युभ्यामश्चेः ककाकैसष्टावच्च” इति टावत्कार्य, उदच् उदीचितिरूपं बाहुलकत्वान्न भवति । भोक्तुमिति-सामानाधिकरण्याभावात् क्रिया- 5 विशेषणत्वेऽपि न द्वितीया, किन्तु तुमोऽपि तुमर्थाऽव्यभिचारविवक्षायां " तुमोऽर्थे भाववचनात्” इति चतुर्थी, हेतुहेतुमद्भावविवक्षायां "हेतुकर्तृ०" इति तृतीया, सम्बन्धविवक्षायां तु “शेष" इति षष्ठी, “क्त्वातुमम्" इत्यव्ययत्वेन विभक्तिलोपः। लुनीहि ३, पुनीहि ३ इत्यत्र “क्षियांशी:प्रेषे” इत्यनेन प्लुतः। शीलं ते स्वमिति-शेरते सर्वगुणा अस्मिनिति “शुकशी०" इत्यले शीलं, अत्राऽस्तीत्यादि क्रियापदं न प्रयुज्यते परं तस्या- 10 ऽप्रयुज्यमानस्याति स्वमिति समानाधिकरणं । ननु शब्दप्रयोगोऽर्थप्रतिपत्त्युपायस्तस्य चाऽप्रयुज्यमानस्याऽपि विशेषणविशेष्यभावेऽतिप्रसङ्गः, अप्रयुज्यमानत्वाविशेषात्सर्व सर्वस्य विशेषणं विशेष्यं च स्यात् , किश्च यद्यप्रयुज्यमानमपि शब्दरूपं विशेष्यं विशेषणं वा गमयेत्तदाऽनर्थकः सर्वत्र तत्प्रयोग इत्याह-अर्थादित्यादि । लोकादेवेति-लोको हि साकाङ्गत्वे सति क्रियाभेदेऽप्येकवाक्यत्वं प्रतिपद्यते, साकासत्वेऽपि 15 क्रियाभेदे वाक्यमेदार्थ वचनमिति भावः । कुरु कुरु न इति-अत्र युगपद्वाक्यद्वयप्रयोग इत्येकवाक्यत्वाभावानसादेशस्य न प्राप्तिरिति पराभिप्रायः ।। .. 'अधातुविभक्तिवाक्यमर्थवन्नाम'।१-१-२७॥ उच्यते विशिष्टोऽर्थोऽनेनेति बाहुलकात्करणेऽपि ध्यणि वाक्यं, कर्मणि तु प्रतीतमेव । अर्थो द्वेधा, अभिधेयः स्वार्थादिभेदात्पश्चधा, द्योत्यश्च समुच्चयादिरिति-यद्वा चकारादिना द्योत्यस्य 20 समुच्चयादेः समासादिनाऽभिधीयमानत्वादभिधेयत्वमप्यस्तीत्याह-धोत्यश्चेत्यादि, अभिधेय इति शेषः । न केवलं स्वार्थादिरभिधेयो द्योत्यश्च, समुच्चयादिरभिधेय इति चार्थः । समुच्चयादिरित्यादिपदाद्वा विकल्पादौ एवोऽवधारणे बोध्यम् । तथा द्योतकानां विशेषणं न भवति, यथा घटश्च भव्यमिति, तथा चादीनां स्वार्थोऽपि द्योत्यतया न वाचकतयेत्येकोऽप्यभिधेयो नास्ति, स्वरादीनां तु लिङ्गसंख्ये न स्तः। ननु अह- 25 नित्यत्र विभक्त्यन्तद्वारेणैव नामत्वं न भविष्यति, किं धातुवर्जनेन ? सत्यं, तथापि हन्तीत्यत्र धातुवर्जनाभावे विभक्तेः प्राक्तनस्य हन्नित्यस्य नामत्वे "नामसिद०” इति व्यञ्जनद्वारा पदत्वे च न लोप: स्यादिति धातोर्वर्जनमिति । अथ वृक्षान् इत्यत्र नकार
.. १ उ. १००३ । २ २-२-६१ । ३२-२-४४ । ४ २-२-८१ । ५ १-१-३५ । ६ ७-४-९२ । ७ उ. ४६३। ८१-१-२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org