________________
(२०) विधानसामर्थ्यादेव न लुग् न भविष्यति, किं विभक्तिवर्जनेनेति ? सत्यं, काँस्कान् इत्यादौ " शसोऽता० ” इति न विधानं चरितार्थमित्यन्यत्र नलोप: स्यादिति । ननु साधुर्धर्म ब्रूत इत्यत्र विभक्त्यन्तत्वादेव नामत्वं न भविष्यति, किं वाक्यवर्जनेन ? सत्यं,
" प्रत्ययः प्रकृत्यादेः” इति परिभाषया ब्रूधातोरेव विभक्त्यन्तत्वं, न तु समग्रवाक्य5 स्य, ततो वाक्यस्य नामत्वे साधुर्धर्म ब्रूत इत्येवंरूपाद्वाक्याद्विभक्तावनिष्टरूपप्रसङ्ग इति। समासादेर्भवत्येवेति-अन्यथा हि अर्थवच्छब्दस्य नामत्वे विधीयमानेऽर्थवसमुदायरूपस्य वाक्यस्य प्रसङ्ग एव नास्ति, किं वाक्यवर्जनेन ? ततश्चैतदेव वाक्यवर्जनं बोधयति, समासादेः समुदायस्य भवत्येवेति । नन्वधातुविभक्तीत्यत्र
पर्युदासाश्रयणादर्थवत एव नामत्वं भविष्यति, नाऽर्थोऽर्थवदित्यनेन, सत्यं; अर्थवदिति 10 संझिनिर्देशार्थं पर्युदासाश्रयणे हि केन धर्मेण सादृश्यमाश्रीयत इत्यप्रतिपत्तिः स्यात् ,
ततश्चाऽनर्थकानामपि धर्मान्तरेण सदृशत्वे नामसंज्ञाप्रसङ्ग इत्याह-अर्थवदिति । अव्युत्पत्तिपक्षाश्रयणे वन इत्यादेः अखण्डस्यैवाऽर्थवत्त्वं, न तु तदवयवार्थस्य वन इत्यादेर्नान्तस्येति, व्युत्पत्तिपक्षे तु धात्वर्थेनाऽर्थवत्तायामपि धातुद्वारेणैव वर्जनसि
द्विरिति । ननु गौरिति वक्तव्ये शक्तिवैकल्याद्गो इति केनचिदुक्तं तत्समीपवर्ती च 15 तदुक्तमपरेण पृष्टः सन् अनुकरोति तदा तदनुकरणस्य नामसंज्ञा स्याद्वा नवेत्याहयदेत्यादि-अनुकार्येणेति-वर्णावलीरूपेणेत्यर्थः ।
स्त्रियोः स्यमौजस्'।१-१-२९॥ अलौकिकोऽयं निर्देशः, अन्यथा पुमांश्च स्त्री चेति कृतेऽर्च्यत्वात स्त्रीशब्दस्य प्राङिपाते “स्त्रियाः पुंसो द्वन्द्वाच्च” इति समासान्ते
च स्त्रीपुंसयोरिति स्यात् , अनेन चैतद् ज्ञाप्यते क्वचिदलौकिकोऽपि निर्देशो भवतीति । 20 स्यमौजसिति-अत्र व्यतिक्रमनिर्देश एवाऽऽवृत्या औकारद्वयग्रहणं साधयति, तथाहि
अम् च औश्च अमौ, ततः सिश्च अमौ च जस् चेति कृतेऽम्सहचरितस्य द्वितीयाद्विवचनस्य ग्रहः, आवृत्या तु व्याख्याने औश्च जस् च औजस् , सिश्च अम् च औजस् चेति कृते जस् साहचर्यात्प्रथमाद्विवचनस्य ग्रहः, एकशेषो वा क्रियते, औश्च औश्च
आवौ, ततः सिश्च अम् च आवौ च जस् च तत्तथेति, इत्याह-औरिति । 25 'स्वरादयोऽव्ययम्'। १-१-३०॥"छायेव या स्वर्जलधेर्जलेषु" इत्यस्य पश्चात्
" स्रष्टुः सदाऽभ्यासगृहीतशील-विज्ञानसम्पत्प्रसरस्य सीमा, अदृश्यताऽऽदर्शतलामलेषु ॥” इति पादत्रयं द्रष्टव्यम् ।
११-४-४९ । २ ७-४-११५ । ३ ७-३-९६ ।
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org