________________
(२१) ... अत्युच्चैऽसाविति-ननु पूर्वपदमप्यत्राऽव्ययं ततस्तत्सम्बन्धित्वाल्लुप्मामोतीति ? सत्यं, अतिक्रान्तेऽर्थे लिङ्गसंख्यायोगादतिशब्दः सत्त्वे वर्तते इति नाऽव्ययम् । “ अतिरतिक्रमे च " इत्यत्र बाहुल कात्समासाभावेऽतिस्तुत्वेत्यादौ क्रिया [ संबद्धस्य ] शब्दस्याऽतिशब्दस्य द्योतकत्वमेवेति । परमनीचैः इत्यादौ, अत्र तुशब्दो विशेषमार्थः, पूर्वस्माद्विशेष द्योतयति तेन किं सिद्धम् ? यत्राऽनुपसर्जनस्वराधन्तो भवति । तत्राऽवयवः समुदायश्चोभयमप्यव्ययं भवत्येव, समासस्योत्तरपदार्थप्रधानत्वात् । अन्वर्थसंज्ञेति-अनुगतोऽर्थेन, अर्थमनुगता वा, अनुगतोऽर्थों यस्या इति वाऽन्वर्था, सा चाऽसौ संज्ञेति । कारकविभक्तीति-विभक्तयो वचनानि । विभक्तिविति-विभक्यर्थेषु कारकेष्विति-यावत् । ननु भवत्वेवं तथापि संज्ञाविधौ तदन्तप्रतिषेधस्य ज्ञापितत्वात् , " ग्रहणवता नाम्ना न तदन्तविधिः" इति प्रतिषेधाच कथं परमोच्चै- 10 रित्यादौ तदन्तस्याऽव्ययसंज्ञेत्याह-अन्वर्थाश्रयणे चेत्यादि । न व्येति न नानात्वं गच्छति सत्त्वधर्मान्न गृहातीत्यन्वर्थसिद्धिः। अयमों यदन्वर्थसंज्ञाकरणाद्वितीयमव्ययमित्युपस्थापितं तद् विशेष्यत्वेन विज्ञायते तस्य स्वरादीतिविशेषणत्वेन, ततश्च " विशेषणमन्तः" इति न्यायात्तदन्तविज्ञानात्केवलस्य तु व्यपदेशिवद्भावात्परमोच्चैरित्यादावप्यव्ययसंज्ञा विज्ञायत इत्यर्थः । यदव्ययमक्षयं शब्दरूपं, किं विशिष्टम् ? 15 स्वरादि स्वराद्यं तदव्ययसंज्ञं भवतीति च सूत्रार्थः समजनि । सनुतर-मेध्यकाले [अधोभागे], अस्तम्-नाशे यथाऽस्तं गतः-सवितेति, दिवा-दिने, दोषा-रात्रौ पर्युषिते च, योस्-वैषयिकं सुखम् , मयस्-सुखम् , विहायसा-खम् , रुदेः “ तस्त तन्द्रितन्यविभ्यः” इति बहुवचनादीप्रत्ययेऽसागमे च रोदसी-द्यावाभूमी, ॐ-प्रणवाभ्युपगमादौ, भूस्-भूमिः, भुवस्-अन्तरिक्षम्, समया निकषा च सामीप्ये, अन्तं 20 रातीति आप्रत्ययेऽन्तरा-विमर्श मध्ये चाऽऽधेयप्रधाने, बहिः-बहिर्भूते बहिष्ट्वे च, असाम्प्रतं-अयुक्तम् , विस्मितार्थाददः पराधातेर्विदित्याप्रत्यये अद्धा-अशंसये, अतः "शीरी०" इति किति ते गणपाठान्मान्तत्वे, ऋतं-शुद्धौ, अस्तेः “ शिक्यास्यान्य." इति निपातनात् ये शतादेशे गणपाठान्मागमे, सत्यं-प्रश्नप्रतिषेधयोः, इत्पूर्वाधातेवित्याकारे इद्वा-प्राकाश्ये, मुधा-निर्निमित्तप्रीतिकरणयोः, मिथो-रहःसहार्थयोः, 25 मिथ-स्वाङ्गे, मिथ:-विजनवियोगेतरे नराद्यैः, मिथुस्-सङ्गमे, मिथुनं-युग्मम् निपातनान्मान्तत्वं, अनिशं-अनवच्छेदः, मङ्घ-शीघ्रं, झटि-संघाते इत्यतः “ प्लुझायजि" इत्यादिबहुवचनात्तिप्रत्यये वाहुलकादिटि च, झटिति-शीघ्रार्थे, सामि-अर्धे, साचि
. १३-१-४५ । २ ७-४-११३ । ३ उ. ७११ । ४ उ. २०१ । ५ उ. ३६४ । ६ उ. ६४६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org