________________
(२२) वक्रत्वे, विष्वक-समन्तात् , अन्वक्-पश्चात , ताजग्द्राक्लान् इति प्रयः शब्दा त्यजिद्रवतिस्रवतीनां " द्रागादयः” इति निपातनात्सिद्धाः शीघ्रार्थे, ऋधक्शीघ्रानृतसामीप्यलाभेषु, धिकादयश्चत्वारो द्रागादित्वात् , हिरुग्-वियोगे, द्योकशीघ्रसम्प्रत्यर्थयो', मनाम्-ईषदप्राप्तयोः, अरं-शीघ्रमत्यर्थ वा, वरं-मनागिष्टे, परं 5 किन्तु, तिरस्-अन्तविज्ञा तिर्यग्भावेषु, मनस्-चित्तं, नमस्-प्रणामे, भूयस्-वारं वारम् , प्रायस्-बाहुल्येन, प्रवाहु-अध्वर्यो अस्यैव गणपाठान्मान्तत्वे प्रवाहुकअत्यथे, प्रवाहुकं-अत्यर्थ समकालं च, आर्य-प्रीतिसम्बोधने पापाद्विरते च, हलं-सीरं, आर्यहलं-विशिष्टं सीरं बलात्कारश्च, बलवत्-अत्यर्थ, ऋते-वियोगे
विना च, सम्पूर्वात्पदेः पदिपठीति इ प्रत्यये गणपाठात्समो मलोपे सपदि, 10 साक्षात्-प्रत्यक्षतुल्ययोः, सत्-परित्राणे, प्रशाम्-प्रशामके, सनात्-चिरन्तने,
सनत्-हिंसायां, नाना-पृथग्भावे, विना-योगप्रतिषेधे, सहसा-अतर्किते, युगपत्क्रियासमभिहारे सहाथै च, उपांशु-रहस्यशनकैर्वचने च, पुरतसादयः ३ प्रथमे पुरोऽर्थे च, शश्वत्-नित्ये, पुन:-पुनरर्थे च, यः शश्वद्वक्तिकुशिक्षित इति कुपूर्वाद्विदेः
किपि कुवित्-योगप्रशंसास्तिभावेषुः इति स्वरादयः । इतिशब्द-एवं प्रकारार्थः, एवं 15 प्रकाराः स्वरादयो गृह्यन्ते न त्वेतावन्त इत्यर्थः, यतः
"इत्यन्त इति संख्यानं,निपातानां न विद्यते । प्रयोजनवशादेते,निपात्यन्ते पदे पदे।।१॥" - आकृतिगणार्थमिति-आक्रियतेऽनयेत्याकृतिर्वणिकतस्या गणस्तदर्थमिति। अव्ययीभावस्य चाऽव्ययत्वं नाऽङ्गीकर्तव्यं, तदङ्गीकरणे ह्युच्चकैर्नीचकैरित्यादिवदु
पामिप्रत्यग्नीत्यत्रापि “अव्ययस्य कोद् च” इत्यक् प्रसज्येत । तथोपकुम्भमन्यमि20 त्यादौ दोषामन्यमहरित्यादिवन्मागमप्रतिषेधः-स्यात् । अथाऽव्ययीभावस्य “तृप्तार्थ
पूरणाव्यय०" इति षष्ठीसमासप्रतिषेधेऽव्ययसंज्ञाफलमिति चेन, तत्र समासकाण्डे बहुलाधिकारादेव सेत्स्यतीति, किञ्चाऽव्ययीभाव इति महतीं संज्ञां यच्च कृतवानाचार्यस्तज्झापयति क्वचिदव्ययत्वमपीति, तेन चैत्रस्योपकुम्भमित्यत्र न समासः ।
'चादयोऽसत्त्वे । १-१-३१॥ अनुकार्यादाविति-आदिशब्दादत्युच्चैसावि25 त्यत्र वाचकस्यातिशब्दस्य चिनोतीति च इत्येवं क्रियाप्रधानस्य च चशब्दस्य नाऽ
व्ययसंज्ञेति, अह-निर्देशविनियोगकिलार्थेषु, एवशब्दस्यैव निपातनान्मान्तत्वे एवम्उपमानोपदेशप्रश्नावितर्कप्रशंसासु, नेत् चेत् नयतेश्चिनोतेश्च विचि निपातनात्तागमे द्वावपि प्रतिषेधविचारसमुच्चयेषु, नचेत् नयदि-निषेधयोः, चण चशन्द एवाऽयं णित्
१ उ. ८७० । २ पुरतस् पुरस् पुरस्तात् इति पुरतसादयः। ३ ७-३-३१ । ४ ३-१-१५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org