________________
(२३) चेदर्थे पठ्यते, अयं च दास्यति, अयं चेद्दास्यतीत्यर्थः, केचित्तु चण शब्द इत्यस्य विजन्तस्य रूपमिच्छन्ति तत्तु न बुध्यामहे, कच्चित्-प्रश्नकालयोः, यत्र-यस्मिन् स्थाने तदा वाचकः, नह-प्रत्यारम्भविषादप्रतिबोधेषु, नहि-अभावे, हन्तप्रीतिविपादसम्प्रदानेषु, माकिस् नकिस्-माइपूर्वान्नड्पूर्वाच्च कायतेविति इसि आलोपे नजदित्यत्वाभावे च एतौ द्वावपि निषेधे वर्जने च, वाव त्वाव-सम्बोधने, न्वाव 5 वावत् त्वावत् न्वावत् एते सर्वेऽप्यनुमानप्रतिज्ञाप्रैषसमाप्तिषु, त्वै तुवै न्वै नुवै एते वितर्के पादपूरणे च, रै-दाने दीप्तौ च, वै-स्फुटार्थे, शृणोति वातिवष्टिभ्यो वाहुलकादटि प्रत्यये यथाक्रमं श्रौषवौषवषादेशे च श्रौषट् वौषट् वषट् एते त्रयोऽपि देवहविर्दानादौ, वट वाट वेट् एते त्रयः प्रशंसायां, पाट् प्याट् एतौ सम्बोधने, फट् हुम्फट छवटभर्सनसम्बोधने, अध-अधोऽर्थे, आत्-कोपपीडयोः, स्वधा-पितृबलौ, स्वाहा- 10 हविर्दाने, चन-अप्यर्थे पादपूरणे च, हि-हेताववधारणे च, अथ-मङ्गलाऽनन्तराऽऽरम्भप्रश्नकात्स्न्येषु, अथो-अन्वादेशादौ, नो नोहि-एतौ निषेधे, भोस् इत्यादयो नव सम्बोधने, ही-विस्मये, हे इत्यादयो दश अनुशयसम्बोधनयोः । ननु-विरोधोक्तो, अनन्वयादौ च; शुकमादयः पञ्च प्रत्याख्याने, ऊम्-प्रश्ने, हुम्-भत्सेने, कुम्-प्रश्ने, उ सुञ् एतौ रुषोक्तौ, हम्-रोषानुकम्पादौ, हिम्-सम्भ्रम-भर्त्सनयोः, 15 अद्-विस्मये, कद्-कुत्सायां, यद् तद्-हेत्वर्थवाक्योपन्यासयोः, इद्-एवार्थे ईषदर्थे च, चिद्-प्रश्नावधारणयोः, विद्-भर्त्सनपादपूरणयोः, स्विद् विमर्श-प्रश्नयोः, उतविकल्पे, बत-खेदानुकम्पासन्तोषविस्मयामत्रणेषु, इव उपमावधारणयोः, तु विशेषणपादपुरणयोः, नु(शब्दो)वितर्कोपमानयोः, यच्च वाक्यान्तरोपक्रमे, कच्चन-कच्चिदर्थे, किमुत-वितर्के, किल-सम्प्रश्नवार्तयो;, किं किल-विषादशोकार्तिषु किलार्थे 20 च, किंस्विद् उदस्विद् आहोस्विद् इति त्रयोऽपि प्रश्नवितर्कविकल्पेषु, अहह अद्भुतखेदयो, नहवै नवै इत्येतो प्रत्याख्याने, नवा-विभाषायां, अन्यत्-अन्यार्थे निपातनाच्च तकारः, अन्यत्र अन्यपूर्वात्रायतेरातो रोऽहावाम इति रे, अन्या विकरणकाले, शपतेः विपि "जपादीनां पोवः” इति पस्यैकत्र वत्वे, शव शप् एतौ प्रतिग्रहे, अथकिम्-अङ्गीकारे, विषु-नानात्वे, पट्-पटुत्वे, पशु-दृश्यर्थे, खलु-निषेधवाक्या- 25 लङ्कारजिज्ञासाऽनुनयनिश्चयेषु, यदिनाम-पक्षान्तरे, यदुत-पराशयप्रकाशनादौ, प्रत्युत-पूर्वोक्तवैपरीत्ये, यपूर्वादतेरिदिति डाप्रत्यये यदा देशायधिकरणे, यथा कथा चेति अनादरेणेत्यर्थः यमेः “ पथयूथेति " थे आत्वे च यथा-योग्यतावीप्सा
• १ भोस्, भगोस्, अघोस्, अझो, हहो, हो, अहो, आहो, उताहो इत्यादयः । २ २-३-१०५ । ३ उ. २३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org