________________
र्थाऽनतिवृत्तिसादृश्यार्थेषु, पुद्-कुत्सायां, ध-हिंसाप्रातिलोम्ययोः, यावत्तावत् एतौ मर्यादावधारणेषु, दिष्ट्या-प्रीतिसेवनयोः सभाजनप्रातिलोम्ययोर्वा, मर्या-सीमबन्धे, आम-पीडायां, नाम-प्रकाश्यसम्भाव्यक्रोधापगमकुत्सनेषु, स्म-अतीते पादपूरणे च, इतिह पुराश्रुतौ, सहादयः पञ्च-सहार्थनिर्देशनिवेदनवाक्यपादपूरणेषु, ईम्-संशय 5 प्रश्नानुमानेषु, सीम्-अभिनवव्यावहरणामर्षपादपूरणेवित्येके, कीम्-अव्यक्ते, आम्
प्रतिवचनावधारयोः, आस-स्मृतिखेदयोः, इति-एवमर्थे १, आद्येऽर्थे २, हेत्वर्थे ३, प्रकारार्थे ४, शब्दप्रादुर्भावे ५, ग्रन्थसमाप्तौ ६, पदार्थविपर्यासादौ ७ च, अव अड अट एते त्रयोऽपि भर्त्सने, बाह्या-निष्पत्ती, अनुपक्-अनुमाने, केचित्तान्तमन्ये, दान्तमपरे दीर्घादिं च मन्यन्ते। वोस्-कुत्सायां, अआप्रभृतयश्चतुर्दशाऽपि पूरणभर्त्सनाऽऽ10 मत्रणनिषेधेषु ।
'अधण्तस्वाद्याशसः' ।-१--१-३२॥ तस्वादयः प्रत्ययास्ते च प्रकृत्यविनामाविन इति तैः प्रकृतिरनुमीयते, तस्याश्चैते विशेषणत्वेनाऽऽश्रीयन्ते, ततो “ विशेषणमन्तः" इति तदन्तविज्ञानं भवतीत्याह तदन्तमिति, किश्च प्रत्ययस्यैवाऽव्ययत्वेनाऽर्जुनत इत्यादौ प्रत्ययमात्रावयवादर्थवत्वेन नामत्वे स्याद्युत्पत्ती 15 " प्रत्ययःप्रकृत्यादेः " इति वचनात्प्रत्ययमात्रस्यैव प्रकृतित्वेन तदन्तत्वे पूर्वस्य च
" नामसिद० " इति पदत्वे “ सपूर्वोत्प्रथमान्ताद्वा०" इति विकल्पप्रसङ्गः तस्मात्तदन्तः समुदाय एवाऽव्ययं न प्रत्ययमात्रमिति, अर्जुनत इति । अत्र सप्तम्येकवचनस्य लुप्, बहुधा " बहोर्धाऽऽसन्ने" इत्यनेन । धा, प्राक् प्राच्या दिशः प्राच्यां वा दिशीति,
" दिक्छब्दादिग्दर्शकालेषु" इति धा तस्य " लुबच्चेः” इति लुब्, यथासम्भवं च 20 “ यादेगिस्य० ” इति डीलुक् , ततः सिसिङीनां " अव्ययस्य.” इति लुक्,
एतद्विशेषणस्य च क्रियाव्ययविशेषण इत्यनेनाऽव्ययविशेषणत्वान्नपुंसकत्वं भवति, एवं दक्षिणादिशब्देभ्यो दिग्देशकालवृत्तिभ्यः सिङसिड्यन्तेभ्योऽतसादयो ज्ञेयाः, यथासम्भवं च "सर्वादयोऽस्यादौ” इति पुंवद्भावः, नवरं उपरि उपरिष्टादित्यत्र
नामग्रहणे लिङ्ग विशिष्टस्याऽपीति न्यायादू शब्दस्याऽप्युपादेशः । बहुशः इति 25 बहवो ददति प्राशित्रादौ " बह्वल्पार्थात्" इति शस् , बहवो ददतीति “ संख्यैकार्था०" इति शम् । पथि द्वैधानीत्यत्र वनानीति शेषः, संशयत्रैधानीत्यत्र च वचनानीति शेषः ।
'वत्तस्याम्'।१-१-३४॥ आमिति षष्ठीबहुवचनस्य, तद्धितस्य, परोक्षास्थान
१७-४-११३ । २७-४-११५ । ३१-१-२१ । ४२-१-३२ । ५७-२-११२ । ६७-२-११३ । ७७-२-१२३ । ८२-४-९५ । ९३-२-७।१०३-२-६१।११५-२-१५.। १२७-२-१५१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org