________________
( २५) निष्पन्नस्य चाऽविशेषेण त्रयाणामपि ग्रहणं प्राप्नोति, द्वयोरेव चेष्यतेऽतोऽतिव्याप्त्यपहतत्वादलक्षणमेतदित्याह-वत्तसीति, तद्धितस्येत्युपलक्षणं ततो “धातोरनेकस्वरादा.” इत्यादिना विहितस्याऽप्यामो ग्रहणं तेन पाचयाश्चक्रुषेत्यादौ टालोपे पदत्वादनुस्वारः सिद्धिः, न चोपलक्षणात् षष्ठीबहुवचनस्याऽपीति ग्रहणं किं न स्यादिति वाच्यम् ? यतो य आम् आमेव भवति स एव गृह्यतेऽयं तु नाम् साम् वा भवतीति, 5 यद्वा बत्तसी अविभक्ती तत्साहचर्यादामोऽप्यविभक्तरेव ग्रहणं ततो दरिद्राञ्चकृवद्भिरित्यत्र कस् स्थाननिष्पन्नस्य पचतितरामित्यत्र " किं त्याद्येऽयय० " इति विहितस्य च ग्रहणं भवति, यत एतावेव तयोर्वत्तस्योरविभक्तित्वेन हिताविति व्युत्पत्त्या तद्धितावित्यभिधीयेते अस्मिश्च व्याख्याने "किं त्याद्येऽव्यय०" इत्यनेनेदमेव सूत्रं सम्पूर्ण गृह्यते, आदि शब्देन तु धातोरनेकस्वरेति विहितस्य क्वस् कानस्थानस्येति । तथा 10 दरिद्राश्चकृवद्भिरित्यत्राऽऽमन्तस्याऽव्ययत्वेऽपि कुत्सिताद्यर्थे "अव्ययस्यकोद् च" इत्यक् न भवति, अपरिसमाप्तार्थत्वेनाऽऽमन्तस्य कुत्सिताद्यर्थासम्भवादिति । उच्चैस्तरामिति-क्वचित्स्वार्थेऽतिप्रकृष्टे वाऽर्थे तरप् ।
'क्त्वातुमम् । १-१-३५ ॥ क्त्वेति ककारोऽसन्देहार्थः, अन्यथा त्वा इति निर्देशे सन्देहः स्यात् , किमयं क्ता प्रत्ययस्य निर्देशः किंवा विदित्वं गोत्वं 15 यकाभिस्ता विदितगोत्वा इति त्वप्रत्ययस्याऽबन्तस्येति । न द्वितीयैकवच-- नस्येति-द्वितीयैकवचनान्तस्याऽव्ययत्वे-" अव्ययस्यकोद् च" इत्यक् स्यात् , तथा देवस्य दर्शनं कुर्वित्यादौ "तृन्नदन्त." इत्यनेन षष्ठी न स्यात् । नन्वेवं ह्यस्तन्यद्यतन्यमन्तस्याऽव्ययत्वं कथं निषिध्यते ? सत्यं, द्वितीयं च तदेकवचनं चेति विग्रहे तस्याऽपि संग्रहः, द्वितीयापेक्षया द्वितीयं चैकवचनं ह्यस्तन्यद्यतन्योरमिति । 20 स्वादुंकारमिति-स्वादुनः करणं पूर्वमिति “स्वाद्वैर्थाददीर्घाद्” इति ब्णम् । यावजीवमदादिति यावजीव्यत इति णम् , अदादित्यत्राऽनद्यतने ह्यस्तनीति ह्यस्तनी न भवति, नाऽनद्यतनप्रबन्धासच्योरिति निषेधात्, किंतु भूतमात्रेऽद्यतनीत्यनेनाऽद्यतनी।
'गतिः । १-१-३६ ॥ अदः कृत्येति-अग्रहानुपदेशेऽन्तरद इत्यनेनाऽद:शब्दस्य गतिसंज्ञा।
'अप्रयोगीत्।१-१-३७॥प्रयोगः-शब्दस्योच्चारणं सोऽस्याऽस्ति प्रयोगी,न प्रयोग्यप्रयोगीति संज्ञिनिर्देशः, इदिति संज्ञेति । लौकिक इति-लोकस्य ज्ञातो "लोकसर्वलोकाज्ज्ञाते” इत्यनेन इतीकण लौकिकः ।
25
१३-४-४६। २७-३-८ । ३७-३-३१।४ २-२-९०। ५५-४-५३ । ६६-४-१५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org