SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 'अनन्तः पञ्चम्याः प्रत्ययः' । १-१-३८ ॥ न विद्यतेऽन्तशब्दो वाचको यस्य स तथा, पञ्चमीति प्रत्ययोऽभिधीयते स च प्रकृत्याविनाभावीति तेन प्रकृतिराक्षिप्यते तया चार्थ इत्याह पञ्चम्यर्थादित्यादि, शब्द इति स च शब्दो वर्णस्तत्समुदायो वा भवति, शब्द्यत इति कृत्वा शब्द शब्देनोच्यत इति । ननु 5 नागमस्य प्रत्ययत्वे को दोष इति ? सत्यं, अनन्ददित्यादौ नागमेन धातोः खण्डित्वानन्दधातो प्राक् “अधातोः" इत्यडागमो न स्यात्, अथ तन्मध्यपतितस्तग्रहणेन गृह्यत इति भविष्यति तर्यस्य न्यायस्याऽनित्यत्वज्ञापनार्थमन्तग्रहणं, तथाऽन्तग्रहणाभावे लाङ्ककायनिः इत्यत्र "चर्मिवर्म०” इत्यायनिञिकागमे तस्य प्रत्ययत्वे "झ्यादीदूतः” के इत्येनन इस्वः स्यादिति तथाऽन्तग्रहणाभावे पश्चम्यर्थाद्विधीयमा10 नत्वेनाऽऽगमस्याऽपि प्रत्ययत्वे प्रत्ययाप्रत्यययोः प्रत्ययस्यैवेति न्यायात् प्रेण्वनमि त्यादावेव "वोत्तरपदान्त०” इत्यनेन णत्वं स्यान्न तु मद्रबाहुणा कुलेनेत्यादौ, "अनामखरे०” इति षष्ठ्यान्ताद्विधीयमानस्य प्रत्ययत्वाभाव इति । अपरं च "ऋतृषमृष०" इत्यत्र श्रथुइशैथिल्य इत्यस्य प्रत्ययाप्रत्ययोः इति न्यायेन नागमस्य प्रत्ययत्वे सत्यस्यैव ग्रहणं स्यान्न तु श्रन्थश्मोचनप्रतिहर्षयोरित्यस्य, तस्मादन्तग्रहणमवश्यं 15 विधेयमिति । उभयथाऽपि पञ्चम्यां सम्भवन्त्यां " परैः” इति परिभाषया प्रत्ययो नियन्त्र्यते प्रकृतेः पर एवेति, तर्हि स्वरात्पूर्वो नोऽन्त इत्यपि कथं न लभ्यत इति चेत् ? सत्यं, " नो व्यञ्जनस्य " इत्यत्राऽनुदित इति भणनात्, अन्यथोपान्त्यत्वाभा. वात् प्राप्तिरेव लोपस्य नाऽस्तीति । ‘डत्यतु संख्यावत् । १-१-३९ ॥ वत्करणाभावे कृत्रिमाकृत्रिमयोरिति 20 न्यायाद् एक व्यादीनामकृत्रिमाणां न स्यादिति । 'बहुगणं भेदे ' । १-१-४० ॥ वैपुल्य इति-यथा बहौ सूपे, बहु घृतं श्रेय इति, अथ बहुगणशब्दयोर्मेदवचनात् संख्यात्वमस्त्येव यतो भेदः परिगणनं संख्येति, ततश्चैकळ्यादीनामिव बहुगणशब्दयोरपि लोकादेव संख्यात्वसिद्धौ किमने नातिदेशवचनेन ? अतिदेशो हि अन्यत्र प्रसिद्धस्याऽन्यत्र प्रसिद्धिप्रापणार्थ इत्याह25 बहुगणावित्यादि, लोके ह्येकद्वयादीनां नियतावधिभेदाभिधायित्वे संख्याप्रसिद्धिरनयोश्च न तथेति संख्याप्रसिद्धेरभाव इति । अवचूर्णिकायां समाप्तोऽयं प्रथमः पादः॥ १ ४-४-२९ । २ ६-१-१९२ । ३ २-४-१०४ । ४ २-३-७५ । ५ १-४-६४ । ६ ४-३-२४ । ७ ७-४-११८ । ८ ४-२-४५। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy