________________
" शीरी: " इत्यादिबहुवचनसामर्थ्यात् किति ते स्पृष्टं स्पृष्टता गुणः, स्पृष्टतानुगतं करणं कृतिरुच्चारणप्रकारः; एवमीपत्स्पृष्टं करणम् इत्यादावप्युत्तरत्र द्रष्टव्यम् । स्वरेषु ए ओ विवृततराविति इत्यत्र विवृततरताऽतिविवृततरताऽतिविवृततमतारूपाणां प्रयत्नान्तराणां सद्भावात् सप्तधा प्रयत्न इति वक्तुमुचितं कथं चतुर्धेत्युक्तं ? सत्यं, विवृततरतादीन्यपि विवृततया परिगृह्योक्तं चतुर्धेति, विशेषस्य सामान्येऽन्तर्भावात् । 5 अकारः संवृत इत्यन्ये, अतिसंवृताख्यं पञ्चमं प्रयत्नमन्ये मन्यन्ते, इत्युत्पत्त्यर्थः [इत्यर्थः] । अकारं संवृतं शिक्षायामेके पठन्ति, तेनाऽकाराऽऽकारयोभिन्नप्रयत्नत्वात् स्वसंज्ञा न प्राप्नोति । अतिविवृत एवाऽत्र प्रतिज्ञायते, प्रयोगे तु संवृत एवाऽसौ स्वरूपेणेत्यन्य इत्युक्तं । सानुनासिकेति नासिकानुगतो यो वर्णधर्मः, सह तेन वर्तते यो वर्णः स तथा । निर्गतोऽनुनासिकाद्यः स तथा । स्वरः संजातो येषां ते स्वरिताः। 10 यथाकथञ्चिद् व्युत्पत्तिः । अनुनासिक इति, अनुनासिको धर्मोऽस्याऽस्तीति " अभ्रादित्वादः, " तद्धर्मरहितोऽननुनासिक इति, रेफोष्मणां त्विति, अन्यवर्णापेक्षया तेषां स्वत्वाभावो रेफस्य रेफः स्वो भवत्येव । एवमूष्मणामपि स्वा न भवन्तीति । ननु वर्णानां तुल्यास्यप्रयत्नत्वे कथं श्रुतिमेदः ? उच्यते-कालपरिमाणकृतगुणभेदाच्छतिभेदः तथाहि-यावता कालेनाऽक्ष्ण उन्मेषो निमेषो वा भवति तावत्कालो मात्रा, 15 मात्राकालो वर्णो मात्रिको, द्विस्तावान् द्विमात्रः, त्रिस्तावान् त्रिमात्रः अर्धमात्राकालं व्यञ्जनं, तदिदं वर्णेषु चतुर्विधं कालपरिमाणं भेदकृद् भवति । ते ह्यासन्न इत्यत्रै. वैति । आसन्न इत्यत्रापि महाप्राणस्यैवाऽवकाशा, अन्येषां च वेदे प्रयोजनम् । श्वासनादावित्यादि, श्वासादय एव ध्वनिविशेषण नादादय उत्पद्यन्ते, इति युगलकेनोक्ताः । वायुना कोष्ठ इति, कोष्ठे-उदरे, शिक्षामिति शिक्ष्यतेऽस्या इति 20 “क्तेटोगुरोर्यञ्जनाद् ” इति अप्रत्यये शिक्षा । संवृतेत्विति संकुचिते कण्ठविले नादध्वनिसंसर्गादिति नादः प्रयत्नो ध्वनिः शब्दस्तयोः संसर्गात् । निग्रह इति निश्चितो ग्रहः, श्रसनं-शैथिल्यम् । वर्ण[निष्पति ]कालभावेति-अल्पस्वरत्वेन भावशब्दस्य पूर्वनिपातः । विवृतकण्ठा इति-विवृतो विवाराख्यप्रयत्नेन संस्कार्य: कण्ठो येषां ते तथा। अघोषा इति-अघोषताख्यप्रयत्नेन संस्कार्याः। घोषवन्त 25 इति-घोषवत्ताप्रयत्नेन संस्कार्याः । अरुक् थ्योततीति रुजे रुचेर्वा कभावे वा किम् । ___ 'स्यौजसमौ०।१-१-१८॥त्रयी त्रयीति-भवनक्रियायां वीप्सा, विशेषणार्था इति विशेषणं विशेषो-व्यवच्छेद इति यावत् तत्प्रयोजना इत्यर्थः, बहुवचनमिति
१ उ २०१ । २ संवृतताख्यं पञ्चमं इति लघुन्यासे । ३ पाणिनीयशिक्षायाम् । ४ ७-२-४६ । ५५-३-१०६ । ६३-१-१६० इत्यनेन ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org