________________
(१४) . - 'अं अः क पशषसाः शिट्' १-१-१६॥ देशकाललिपिमेदेऽपि रूपामेदादृष्टान्तमाह-वज्राकृतिरिति । वज्रस्येवाऽऽकृतिर्यस्येति स तथा, गजकुम्भयोरिवाऽऽकृतिर्यस्य सोऽपि तथा, ककारपकारौ चाऽनयोः परदेशस्थावुच्चार्येते, सर्वत्र परसम्बद्धावेवैतौ भवतो न स्वतन्त्रौ, नाऽपि पूर्वसम्बद्धावनुस्वारवदिति । रेफदेशत्वात्कख5 पफसंनिधावेव तयोः प्रयोगादल्पविषयत्वम् , अत एव सत्यपि संज्ञिसामानाधिकरण्येऽल्पीयस्त्वज्ञापनाय शिडित्येकवचनेन निर्देशः कृतः। अथ कथमनयोर्वर्णत्वम् १ वर्णसमाम्नाये पाठाभावात् , सत्यं; रेफस्य वर्णत्वात्तयोश्च रेफादेशत्वाद्वर्णत्वसिद्धिः । न च वर्णादेशत्वेन लोपस्याऽपि वर्णत्वमाशङ्कनीयम् , तस्याऽभावरूपत्वात् । न चाऽभावो
मावस्याऽऽश्रयो भवितुमर्हति अतिप्रसङ्गात् । अयमेवाऽर्थो बहुवचनेन सूच्यते, अनुवा10 कत्वेन तस्य साधकत्वाभावात् इत्याह-बहुवचनमिति । ननु कथं ४ क ८ पयोव्यञ्जन
संज्ञाऽपि-पूर्वेषामस्ति तत्कथं तैः सह न विरोधः ? उच्यते, व्यञ्जनसंज्ञानन्तरमेषां संज्ञाविधानाद् व्यञ्जनसंज्ञाऽपि, यदि वा कादिर्व्यञ्जनमित्यत्राऽऽवृत्त्या कस्याऽऽदिर्योऽनुस्वारो विसृष्टो वा सोऽपि व्यञ्जनमित्यविरोध इति ।
'तुल्यस्थानास्य प्रयत्नः स्वः'।१-१-१७॥ प्रायो णिजन्ता चुरादावतुले 15 [ चुरादौ तुले ] तोल्यतेऽनयेति " भिदा/ङि" [ इत्यनेन ] तुला, अस्यति-क्षिपति
वर्णाननेनेत्यास्यम् । प्रयत्नः उत्साहः । नासिकोष्ठौ चेति व्यस्तावेतौ, समासे तु “प्राणितूर्य०” इति समाहारः स्यात् । तरतीति तालुः “ ऋतृशमृभादिभ्यो रोलश्च" इत्यनेन णिदु प्रत्यये रेफस्य च लत्वे तालु । कलयतीपदास्यभावमित्यच्, अल्पाद्यर्थे
कपि णके वा कुईषत्कलके " अल्पे” इति कादेशः, काकलक इति संज्ञा यस्य स 20 तथा, ग्रीवायामुन्नतप्रदेशः आन्तर इत्यन्तरा भवो " भँवे " अण इति अन्तर्जातो
वा, भवे तु अर्थे " दिगादित्वाद्यः " स्यात् । स्पृश्यन्ते स्म स्पृष्टा वर्णास्तेषां भाव: स्पृष्टता, वर्णानां प्रवृत्तिनिमित्तं स्पृष्टताहेतुत्वात्प्रयत्नोऽपि स्पृष्टता; " अभ्रादिभ्य" इति अ प्रत्यये वा प्रयत्नानां संज्ञा इमा यथाकथञ्चिद् व्युत्पाद्यन्ते एवं सर्वत्र ।
एवमीपत्स्पृष्टतादि । विवियन्तेस्म विवृता वर्णास्तेषां भावः, ईषद्विवियन्ते स्म । 25 करणमिति वर्णोत्पत्तिकाले स्थानानां प्रयत्नानां च सहकारि कारणं । सर्वं मुखं
स्थानमस्य, मुखस्थितानि सर्वाण्यपि स्थानान्यवर्णस्येत्यर्थः । कण्ठतालव्याविति कण्ठतालुनि भवौ दे...स[देहाशाद्यः] समुदायादपि यः । मृक स्थानः इति सुकन्शन्द ओष्ठपर्यन्ते वर्तते । स्पृष्टं करणमिति स्पृश्यन्ते वर्णा अस्मिन्नित्यौणादिके - १३-४-१७ । २५-३-१.८ । ३ ३-१-१३७ । ४ तृप्लवनतरणयोः । ५ उ-७२७ । ६-३-२-१३६ । ७ ६-३-१२३ । ८ ६-३-१२४ । ९ ४-२-४६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org