________________
(१३)
10
समुदायस्याऽवयवित्वे समवेतत्वान्यग्भूतावयवत्वेन समुदायप्राधान्यादेकवचनं, संज्ञिसामानाधिकरण्येऽपि स्मृतयः प्रमाणमितिवदाविष्टलिङ्गत्वाद् व्यञ्जनमिति नपुंसकत्वं, व्यज्यते-प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनं, स्वराणामर्थप्रकाशने उपकारकं यथा सूपादीन्योदनस्येति व्यञ्जनसादृश्यादन्वर्थ चेदं नामेति । कस्याऽऽदिः कादिरिति व्यवस्थावाच्यप्यादिशब्दस्तेन स्वराणां न व्यञ्जनसंज्ञा, अनुस्वारविसर्गयोस्तु भवति । 5 ततोऽनुस्वारस्य व्यञ्जनसंज्ञायां संस्कर्ता इत्यादावनुस्वाररूपव्यञ्जनात्परस्य सस्य “ धुंटो धुटि स्वे वा” इत्यनेन लुक् सिद्धो, विसर्गस्य तु व्यञ्जनत्वे सुपूर्वस्य दुःखयतेः किपि णिलुकि सेश्च लुकि " पदेस्य ” इति विसर्गरूपसंयोगान्तस्य खस्य लुक् सिद्धस्ततो विसर्गस्य कस्याऽऽदिरितिव्युत्पन्या धुट्त्वे " घुटस्तृतीय ” इति स्थान्यासन्ने गत्वे सति सुदुग् इति सिद्धम् ।
'अपश्चमान्तःस्थो धुट् ' । १-१-११ ॥ धुद्छब्दो विषयनामत्वात्पुंलिङ्गः, एवमुत्तरत्र गुट्छब्दोऽपि द्रष्टव्यः।
‘पञ्चको वर्गः'। १-१-१२ ॥ सजातीयसमुदायो वर्गः, स चाऽवर्गकवर्गादिमेदेनाऽष्टधा, वर्णसमाम्नाये केवलिकादिशास्त्रेषु च प्रसिद्धः । तत्र च यः पञ्चसंख्यत्वेन व्यवस्थितस्तस्येह वर्गसंज्ञेति, अत आह कादिष्विति । यो य इति संज्ञिना बहु- 15 वादगृहीतवीप्सोऽपि पञ्चकशब्दो वीप्सां गमयतीति । वृणोत्यात्मीयमेकत्वेन व्यवस्थापयति, " गम्यमि० " इति गे, वर्गः जात्यपेक्षमेकवचनम् ।
'आधद्वितीय शषसा अघोषाः'।१-१-१३ ॥ इति घुष इत्यस्य "भावाकत्रोंः" इति घनि, घुषण “युर्वर्ण" इत्यलि वा घोषः, अविद्यमानो घोषो येषां यथाऽनुदरा कन्येति । ननु लाघवार्थ समाहार एव युक्तो यतो मात्रालाघवमप्युत्स- 20 वाय मन्यन्ते वैयाकरणा इत्याह बहुवचनमिति । ' 'अन्यो घोषवान्'।१-१-१४॥ घोषो ध्वनिर्विद्यते यस्य स तथा, अन्वर्थता च तुल्यस्थानास्येत्यत्र दर्शयिष्यते, घोषवानिति जातिनिर्देशः, अघोषापेक्षया चाsन्यत्वं तेन येषामतिशायी घोषस्तेऽन्यत्वजात्यध्यासिता घोषवन्त इत्यर्थः ।
'यरलवा अन्तःस्थाः'।१-१-१५ ॥ लिङ्गमशिष्यं लोकाश्रयत्वादिति, वर्ण- 25 विशेषणमप्यन्तस्थाशब्दः स्त्रीलिङ्गो वाहुलकात् शब्दशक्तिस्वाभाव्याबहुत्ववृत्तिश्च प्राय इति । यरलव इतीति-अर्थववाभावे नामत्वाभावान्न स्यादिः।
११-१-१८ । २२-१-८९ । ३२-१-७६ । । उ ९२ । ५५-३-१८ । ६ ५-१-१८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org