________________
(१२) उच्यत, वचनमदन सज्ञा कुवनवं ज्ञापयति यत्र नामिनः काय विधायत तत्र याद कार्यात्कार्थी स्वरो न्यूनो भवति तदैव नामिसंज्ञा प्रवर्तते नाऽन्यथा, तेन ग्लायतिम्लायतीत्यादौ न गुणोऽत एव तत्राऽऽह । ऐकारोपदेशबलान्नामित्वाभावाद्गुणामान
इति । विशेषणविशेष्यभावस्तु सामान्यविशेषभावेन यथा पञ्चादौ घुट, वेदाः प्रमाण5 मिति एवं " अं अः ४ क ( पशषसाः शिट्" इत्यादावपि द्रष्टव्यं । अत्रोत्तरयोश्च
सूत्रयोबहुवचनं प्लुतसंग्रहार्थ, नामित्वे च निश्कुल इत्यादौ षत्वं सिद्धं । _ 'लदन्ताः समानाः'।१-१-७॥उदात्तानुदात्तस्वरितसानुनासिकनिरनुनासिकभेदादष्टादशधा भिद्यन्तेऽवर्णादयः, तेन सम्यगनिति प्राणितितुल्यत्वप्रतीतिरने
नेति । समानं तुल्यं मानं परिमाणं परिच्छेदो येषां " समानस्य धर्मादिषु" इति सादेशे 10 समानाः परस्परविलक्षणमाकारं बिभ्राणा अपीति । अत्राऽनवर्णा इति नाऽनुवर्तते,
कादिरित्यादाववर्णस्य समानसंज्ञाफलभूतदीर्घत्वदर्शनात् , तथा कु ऋकारः क्लश्कारश्चेति द्विधाऽपि क्लृकार इत्यत्र ऋवर्णस्य समानसंज्ञत्वे दीर्घत्वं सिद्धम् ।
'एऐओऔ सन्ध्यक्षरम् ' । १-१-८॥ न धरतीति वा “ ज्वल० " इति णप्रत्ययस्य विकल्पेन विधानादचि अक्षरं सन्धौ सत्यक्षरं सन्ध्यक्षरं, तथाहि-अवर्णस्ये15 वर्णेन सन्धौ एकारः [एकारैकाराभ्यामैकारः ] अवर्णस्योवर्णेन ओकारः ओकारौकाराभ्यां च औकार इति ।
'अं अः अनुस्वार विसर्गौ' । १-१-९॥ विसृज्यते-विरम्यत इति पनि विसर्गः, कर्मप्रत्ययोपलक्षणं चेदं, तेन विसृष्टो विसर्जनीय इत्यपि संज्ञाद्वयं द्रष्टव्यं । ___'कादिर्व्यञ्जनम् ' । १-१-१०॥ आदीयते-गृह्यतेऽर्थोस्मादित्यादिः, स च 20 सामीप्यव्यवस्थाप्रकारावयवेषु वर्तते, तत्र गङ्गादौ घोष इति सामीप्ये, ब्राह्मणादयो
वर्णा इति व्यवस्थायां, आद्या देवदत्तादय इति प्रकारे, स्तम्भादयो गृहा इत्यस्यवे, सामीप्यवाचकस्याऽऽदिशब्दस्य ग्रहणे ककारस्य व्यजनसंज्ञा न स्यात्, उपलक्षणस्य कार्येऽनुपयोगात्, यथा-चित्रगुरानीयतामित्युक्ते चित्रगवोपलक्षितः पुमानेवाऽऽ
नीयते, न तु चित्रा गौरिति; व्यवस्थार्थोऽपि न घटते वर्णसमाम्नायस्य व्यवस्थित25 त्वेन व्यभिचारासम्भवः, व्यभिचारे च विशेषणमर्थवदिति हि न्यायः । कादीनां
परस्परमत्यन्तवैसदृश्यात प्रकारार्थोऽपि न घटते । अवयवार्थवृत्तिस्तु संगच्छते-ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादिः, अत एवाऽत्र तद्गुणसंविज्ञानो बहुव्रीहिः,
3.
(४)
११-१-१।२३-१-१४९ । ३४-२-३२ । ४ प्रकारो हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org