________________
(११) दिसूत्रे सन्ध्यक्षरग्रहणात्तत्र हि सूत्रे " सम्मत्यसूयाकोप० " इत्यादिसूत्रादधिकारागतस्य स्वरेष्विति पदस्यार्थवशाद्विभक्तिपरिणामेन स्वरस्येति परिणामात् स्वररूपः सन्ध्यक्षः प्लुतो भवतीति सूत्रार्थः । अतद्गुणसंविज्ञाने तु औकारस्य स्वरसंज्ञत्वाभावे संख्येपैदैदोदित्येवं क्रियते न तु सन्ध्यक्षरस्येति । ज्ञाप चाऽत्र, “ अष्ट और्जस्शसोः, " " आतोणव औः, " " उतॆ और्विति व्यञ्जनेऽद्वे: ” इत्यादि । औकारस्य हि स्वरत्वा- 5 भावे अष्ट औः इत्यादिसूत्रेषु " स्वरे वा" इत्यनेन यलोपो न स्यात् । तकार इति उच्चार्यते स्वरूपेण स्वीक्रियतेऽनेनेत्युच्चारणं स्वरूपपरिग्रह इति भावः । तपरत्वानिदेशस्य औदित्युक्ते औकारस्य स्वरूपं प्रतीयते, तकाराभावे तु आवन्ता इति कृते कष्टा-प्रतीतिः स्यात् । ननु औदित्युक्तेऽपि " विशेषणमन्तः” इति सूत्रवशात् औदन्ता वर्णा इति लप्स्यते, किमन्तग्रहणेनेति ? नेवं, उदात्तादिभेदेनाऽपि 10 बहुवचनस्य चरितार्थत्वेन औदन्ता अकाराद्या वर्णा इति न लभ्येत, ततो दधि नौः इत्यत्र नौशब्दस्य स्वरत्व इकारस्य यत्वे च दध्यनौः इत्यनिष्टं रूपं स्यात् एवं “लदैन्ताः समानाः” इत्यत्राऽप्यन्तग्रहणफलं ज्ञेयं । न तु लकारः क्लपिस्थ एव प्रयुज्यते, न च लकारस्य स्वरसंज्ञाफलमस्ति, लकारस्य तु प्रयोगोऽपि न काऽपि दृश्यत इति ? नैवम् , क्लप्प्तः इत्यत्र " अदीर्घाद्विरामैक०" इति द्वित्वस्य, क्लइसशिख 15 इत्यादौ प्लुतस्य चाऽधिकारागतस्वराश्रितस्य दर्शनात् ,*.... कारावित्यत्र इकारस्य च लकारे स्वरे यत्वविधानात्, प्रदेशा इति प्रदिश्यन्ते-कथ्यन्ते संज्ञाप्रयोजनानि एष्विति " व्यञ्जनाद्घञ्” इति पनि प्रदेशाः प्रयोजनस्थानानि ।।
'एकद्वित्रिमात्रा इस्वदीर्घप्लुताः'।१-१-५॥ इति एकेति “ सर्वादयोऽस्यादौ” इति पुंवद्भावः । मात्रेति निमेषोन्मेषक्रियापरिच्छिन्न उच्चारणकालो मात्रा, 20 ऐदौतौ चतुर्मात्रावपीत्यन्ये, इति शेषा हि पादाः । अर्धमात्रिकयोरिति, अर्ध मात्राया अर्धमात्रा साऽस्त्यनयोरिति, “ ब्रीह्यादिभ्यस्तौ ” इतीके अर्धमात्रिके तयोः । तितउच्छत्रमित्यत्र तु विधानबलादोत्वं न भवति । अन्यैः कालापकाद्यैर्दीर्घसंज्ञापि कृता नास्ति, ततोऽत्र संज्ञाद्वयेऽपि सन्देहः। यद्वा अ आ इत्यादौ क्रमेण इस्वदीर्घसंज्ञा दृष्टा, ए ऐ इत्यादावपि किं तथैवेत्याशङ्कायामाह-सन्ध्यक्षराणां त्वित्यादि। 25 . 'अनवर्णा नामी' १-१-६ ॥ न विद्यतेऽवर्णो येष्वौदन्तेषु तेऽनवर्णाः, ननु संज्ञिसमानाधिकरणत्वेनौदन्ताः स्वरा इतिवन्नामिन इत्येवं बहुवचननिर्देशो युज्यते ?,
१ ७-४-८९ । २ १-४-५३ । ३ ४-२-१२० । ४ ४-३-५९ । ५१-३-२४ । ६ ७-४-११३ । ७ १-१-७ । ८ १-३-३२ । ९ ७-४-९९ । १० ५-३-१३२ । ११३-२-६१ । १२, ७-२-५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org