________________
यतः शब्दानुशासनात्पदसिद्धिरर्थनिर्णयः तस्मात् तत्वज्ञानं तस्माच परं श्रेयः। सम्बन्धस्त्वभिधेय-प्रयोजनयोः साध्यसाधनभावः । शब्दानुशासनाभिधेययोस्त्वमिधानाभिधेयभावः, स च तयोरेवाऽन्तर्भूतत्वात्पृथङ् न दर्शित इति ॥१-१-२॥
'लोकात्' । १-१-३॥ लोकान् आलोकते सर्वभावाननन्तज्ञानोऽ. स्मिमिति " व्यञ्जनाद् घम् ” इति घनि, आलोक्यते तत्त्वनिश्चया वेति 5 " भावाकोंः " इति घनि, लोकते सर्वपदार्थान् इति “ अचू ” वाचि लोकः तस्माद् “गम्य यपः कर्माधारे” इति पञ्चमी । 'उक्तातिरिक्तानाम्' इत्यादि-उक्ताभ्योतिरिक्ता उक्तातिरिक्ता अधिकास्तासां पूर्वापरीभूतावयवाक्रिया, विशेषणं-गुणः । “सत्त्वे निविशतेऽपैति, पृथग्जातिषु दृश्यते । आधेयश्चाऽक्रियाजश्व, सोऽसवप्रकृतिर्गुणः ॥१॥” इति वा विशेष्य-द्रव्यम् । " आकृतिग्रहणाजाति- 10 लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्लाह्या, गोत्रं च चरणैः सह ॥१॥" इति जातिः । त्रुट्यादिलक्षणः-कालः । अयमियमिदमिति यतस्तत्पुंस्त्रीनपुंसकरूपं लिङ्गम् । " अविकारोऽद्रवं मृत, प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्त-निभं च प्रतिमादिषु ॥१॥" इति स्वाङ्गम् । एकाद्यभिधानप्रत्ययहेतुः संख्या । "ऊर्ध्वमानं किलोन्मानं, परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्, 15 संख्या बाह्या तु सर्वतः ॥१॥" इति परिमाणम् । अपत्यं पुत्रपौत्रादि । क्रियागुणद्रव्यैर्युगपत्प्रयोक्ताप्तुमिच्छा वीप्सा । अदर्शनं लुक् । अष्टादशभेदोऽकारादिसमुदायोऽवर्णः। आदिशब्दादिवर्णादिपरिग्रहः । तथा संवृतस्याऽप्यकारस्य स्वसंज्ञाप्रसिद्ध्यर्थं विवृतत्वमपीति वैयाकरणाः । तथा संयोगविभागयोरनपेक्ष्य कारणं कर्मउत्क्षेपणावक्षेपणाकुश्चनप्रसारणगमनरूपं सा क्रिया, द्रव्याश्रयी गुणो, गुणाश्रयो 20 द्रव्यं, अनुवृत्तप्रत्ययहेतुः-सामान्यं जातिः, परापरादि-प्रत्ययहेतुः कालः, अनुमानं लिङ्गं, स्वाङ्गारम्भकमवयवरूपं स्वाझं, अणुमहदादिप्रत्ययहेतुः परिमाणमितिप्रामाणिकाः। अत्राऽऽदिशब्दाज्योतिषिकच्छान्द सादिपरिग्रहः ।
_ 'परान्नित्यम्' इति तथाहि-वनानीत्यादौ " शेसोऽता० " इति दीर्घ बाधित्वा परत्वात् “नपुंसकस्य शिः” इत्येव भवति, तस्मानित्यं बलीयः-यथा स्योन इत्यत्र परमपि 5 गुणं बाधित्वा नित्यत्वादद। तथा नित्यादन्तरङ्गं यथाऽत्रैवोटि कृते नित्यमपि गुणं बाधित्वाऽल्पाश्रितत्वेनाऽन्तरङ्गत्वाद्यत्वं, तथाऽन्तरङ्गादनवकाशं यथा-गर्ग
१५-३-१३२ । २: ५-३-१८ । ३ ५-१-४९ । ४ २-२-७४ । ५ १-४-४९ । ६१-४-५५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org